SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६६ प्र० वा० वृत्तौ (१ परिच्छेदः) तदप्यस्य स्नेहोऽवस्थान्तरेषणात् । द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥२५२॥ यस्मात्तदापि निवॆदावस्थायां स्नेहोस्यास्ति न च विरक्तस्य स्नेहसम्भवः । तदस्तित्वमेव कुत इति चेत् । अवस्थान्तरस्य दुःखहेतोर्निवेदकारिण्यां अवस्थायां विलक्षणस्यैषणात्। न हि स्नेहमन्तरेणैकत्यागादपरवाञ्छा । द्वेषस्य दुःखस्य योनित्वात् । स निर्व्वेदाख्यो द्वेषो यावद् दुःखमनुवर्तते तावन्मात्रं तावत्कालपरिमाणं संस्थितिरस्येति (२५२ ) (छ) हानोपादानहानित औदासीन्यम् तस्मिन निवृत्ते प्रकृतिं स्वामेव भजते पुनः । तथा तस्मिन् दुःखे कारणनिरोधान्निवृत्ते पुनः स्वामेव प्रकृति विषयेष्वविरागलक्षणां भजते सत्त्वदर्शी । hati हि वैराग्यं युक्तं । दासीन्यं तु सर्वत्र त्यागोपादानहानित: ॥२५३॥ वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते । सस्त्वदृष्टयभावात् सर्व्वत्र विषये प्रतिकूलत्वानुकूलत्वाभ्यां अनध्यवसिते त्यागोपादानयोर्हानितो (२५३) वासीचन्दनकल्पानां वासीचन्दनयोः कल्पाः . सदृशा ये वासीचन्दनकल्पा वा ये तेषां साक्षात्कृतनैरात्म्यतत्त्वानामौदासीन्यमनुनयप्रतिघ' रहितत्वं पुनर्वैराग्यं नाम आगमप्रसिद्धं कथ्यते । I. संस्कारदुःखभावात् दुःखभावना ननु यदि दुःखभावनया स्नेहादिहान्या न मुक्तिः तत्कथं भगवतोक्ता दुःखभाव नेत्याह (1) संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ २५४ ॥ संस्कारदुःखतां मत्वा कथिता दुःखभावना। न हि दुःखदुःखतामभिसन्धाय तद्भावोक्ता किन्तर्हि संस्कारदुःखतां । (२५४) 2. सैव किमुच्यत इत्याह (1) सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यहगाश्रयः । आह । * आत्मभावे तदुपकरणे च । ३ उद्वेगोहं ममेति ग्रहश्च ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy