________________
सत्कायवृष्टिः हीयते साऽपि तस्मान्नागुणदर्शनात् ।
तस्माद् गुणदर्शनहेतुकत्वाभावात् सा आत्मीयबुद्धिरपि अगुणस्य दोषस्य दर्शनान्न हीयते । कारणविरुद्धो हि धर्मी निवर्तकः कस्यचिद्ययाग्नी रोमाञ्चविशेषस्य । आत्मदर्शनं हि स्नेहात्मीयदृशादेः कारणं न च तद्विरोधिनी दोषदृक् । अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते ॥ २४८॥ तस्मात् तत्कारणाबाधी विधिस्तं बाधते कथम् ।
अपि चासतां गुणानामारोपस्तत्रात्मीये स्नेहाद्धि यस्माद् दृश्यते ( २४८ ) तस्मात्तस्य स्नेहादेः कारणस्यात्मदर्शनस्याबाची अबाघको विधिर्दीक्षा दुःखभावनादिरूपः तं स्नेहादि बाघते कथं । कारणानिवृत्त्या कार्यनिषेधस्य कर्तुमशक्यत्वात् । (च) प्रकृतिपुरुषयोर्भेदप्रतीतावपि न मोक्षः
सांख्या स्तु मन्यंते । चेतनाचेतनयोः पुरुषप्रधा । नयोर्यावदैक्यं मन्यते पुरुष: तावत्स स्नेहवान् अयुक्तश्च भेदप्रतीतौ न स्नेहो वियुक्तश्चेति । अत्राह (1) परापरप्रार्थनातो विनाशोत्पादबुद्धितः ॥२४९॥
काणत्वादिदोषयुक्ता परापरस्य विशिष्टविशिष्टस्य चक्षुः शरीरादिकस्य प्रार्थनातः । . आत्मनश्चान्यस्यानभिलाषतः । तस्मात्पृथग्भूतमात्मानमयममुक्तोपि जनो वेत्ति । तथा विनाशोत्पादबुद्धितः ( । २४९ )
इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः ।
तस्मान्नैकत्वदृष्टयापि स्नेहः स्निह्यन् स आत्मनि ॥२५०|| शरीरेन्द्रियादौ विपर्ययाच्चात्मनि भिन्नमात्मानं तेभ्यो वेत्ति तस्मानैकत्ववृष्टद्यापि स्नेहः किन्त्वात्मदर्शनात् । स आत्मदर्शी स्निह्यन्नात्मनि (२५० ) उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते ।
प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः ॥ २५१॥ न वैराग्यं ;
उपलम्भान्तरङ्गेषूपभोगसाधनेष्विन्द्रियादिषु प्रकृत्या स्वभावेनैवानुरज्यते । प्रत्युत्पन्नात्तु वर्तमानात्पुन 'दुःखानिव्र्व्वेदो यः स न वैराग्यं किन्तु द्वेष ईदृशः । (२५१)
१ प्रकृतिः वेदनावित्याह
* स्यादेतदात्मीयस्नेहस्यात्मीयबुद्धिरेव हेतुः सा तु गुणदर्शनादित्याह ।
* एकबुद्धिरेवेन्द्रियादिष्वात्मनो नास्त्यतः पृथगात्मनो