________________
प्र० वा० वृत्तौ (१ परिच्छेदः) - एतावदेव च जगत्। त्रिभिजंगतः संग्रहात्। वेदानीस मोक्तुकामो विरज्यते। समुदायादोषदर्शनात् तत एव विरज्यते चेत् । नन्वेवमात्मन्यपि वैराग्यं प्राप्त। न केवलं गुणवत्ता सदोषतापि चेत्तस्य स्नेहेन्द्रियादेः। तत्रात्मन्यपि
कैवल्येनेष्टे सा सदोषता समा तस्या अपि स्नेहादिदोषवत्त्वात्। (२४४) 18a f. एवन्तात्मदोषमेव वैराग्यभावनाया जह्यादिति चेत्।
. तत्राविरक्तस्तदोषे केदानीं स विरज्यते।
तत्रात्मन्यविरक्तस्तदोषे क्वेदानीमात्मदर्शनकाले स मुमुक्षुर्विरज्यते । यथा सदोषेप्यात्मन्यात्मदर्शनादविरक्तस्तथा तद्दोषेपि स्नेहादात्मीयत्वदर्शनान विरज्येत (1) अपि च (1)
* गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥२४५॥ गुणदर्शनसम्भूतं स्नेहं बाधितदोषस्य दृक् दृष्टि: (२४५)
स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् । दोषवत्यपि सद्भावात् स्वभावाद् गुणवत्यपि ॥२४६॥
अन्यत्र;--सच स्नेहजेन्द्रियादावेवं गुण 'दर्शनान्न दृष्टः । बालादेरपि गुणपरीक्षाऽभ्यु(पग)म्य चक्षुरादावात्मीयत्वमात्रेण स्नेहस्य सम्भवात्। गुणदोषदर्शनात् न स्नेहभावाभावी। किन्त्वात्मीयत्वदर्शनावर्शनासदन्वयव्यतिरेकानुविधानादिति । दर्शयति च स्वकीये चक्षुरादौ गुणविकले काणत्वादिदोषवत्पप्यात्मीयत्वपरामर्शात् स्नेहम्य सद्भावादन्यत्र परकीये नेत्रादौ दोषरहिते गुणवत्य'पि (१२४६)
आत्मीयतायां वा व्यतीतादौ विहानितः। तत एव च नात्मीयबुद्ध रेपि गुणेक्षणम् ॥२४७॥ .
कारणम् । आत्मीयतायामपि वाऽतीतादौ केशनखादौ आदिशब्दाल्लूनागल्यादौ वर्तमानेन स्नेह आत्मीयत्वेनावृष्टबिहानितः परित्यागात् स्वत्वस्य तत एव च बालादेरपि भावात् । आत्मीयदुवेरपि न मुगाचं कारणं किन्त्वात्मदर्शनमेव (१२४७)
आत्मस्नेहः साधनञ्छ। दुःखाश्रयत्वात्।
आत्मीयबुद्धेरबाधकं दुःखदर्शनं कथमात्मीयस्नेहमपनुवेत् । तदेवाह। शिष्यान् परतः पूर्वार्थसमर्थनमाचार्यः। स्नेहाभावात्।