SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सत्कायदृष्टिः भावनयापि एष भावको दुःखमेव भाव्यमानं विभावयेत् प्रका' शयेत्। (२४०) प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् । यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥२४॥ , तच्च भावनातः पूर्वमपि प्रत्यक्षमेव दुःखमात्म स्नेहादिशस्त्रप्रहाराद्यनुभवकाले तथापि प्रत्यक्षीकृतात्मस्नेहादिदुःखत्वे पि न विरागवान् तेषु कश्चित्तदा। ततो भावनाप्रकर्षेप्येवं स्यात् साक्षात्करणत्वात्तस्य। तच्च न विरागहेतुः प्रागिव यद्यप्येकत्रापराधकारिणि दोषदर्शनात् तत्मणं नियतकालमनुरागाच्चलिता मतिविरामभजनात् (१२४१) विरक्तो नैव तत्रापि कामीव वनितान्तरे। त्याज्योपादेयभेदे हि सक्तिय वैकभाविनी ॥२४२॥ . तथाप्यसौ तत्र विरक्तः सर्वथा पर्यायेण रागोत्पत्तेः। किं पुनरन्यत्र कामीव क्वचित् कामिन्यां रागकारिण्यां विरक्तोपि न वनितान्तरे विरक्तः। तस्यामपि वां क्रमेण। किञ्च (0) प्रतिषानुनयविषयत्वात् . त्याज्योपादेयभे वे हि सति सक्तिरासक्तियैवैकस्मिन् भाविनी द्वेषविषयतयाऽनुरागविषयतया वा (१२४२) __सा बीज सर्वसतीनां पर्यायेण समुद्भवे । निदोषविषयः स्नेहो निदोषः साधनानि च ॥२४३॥ . e. सा सक्तिर्बीजं कारणं सर्वसक्तीनां पर्यायेण परिपाट्या समुद्भवनिमित्तं। तथा हि क्वचिद् द्वेषासक्त्या तदनुकूलप्रतिकूलयोः प्रतिषानुनयौ भवतः। तथानुरागासक्त्यापि क्वचित्तयोरेवानुनयद्वेषौ भवतः। तदेवममात्लो निर्दोषत्वानिर्दोषविषयः स्नेहो निर्दोषः स्वयं उपभोगसाधनानि चेन्द्रियशरीरादीनि शब्दरसरूपादीनि निर्दोषाणि। आत्मादीनां सर्वेषां प्रत्येकं दुःखहेतुत्वाभावात्। (२४३) एतावदेव च जगत् केदानी स विरज्यते। सदोषताऽपि चेत् तस्य तत्रात्मन्यपि सा समा ॥२४४॥ इति व्यर्था भावना। 'प्रत्यक्षावसानत्वात् भावनायाः। ३ आत्मनीत्यादिवदयमुपदेशः। ४ निर्दोषस्यात्मनः सतः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy