________________
प्र० वा० वृत्तौ (१ परिच्छेदः)
निवृत्तः सर्व्वस्यानुभवव्यव' हारस्य समाश्रय आश्रयणं यस्मात्तं नाशलक्षणाविशिष्टमित्यर्थः । नाशा "विशिष्टञ्चात्मानं कथं प्रेम स्नेहातिशय इच्छेत् । यस्मात् (1)
६२
प्रम्णः प्रकृतिर्न हि तादृशी ।
प्रेम्णः प्रकृतिस्तादृशी स्वविषयनाशैषणस्वभावा न भवति ( 1 ) तस्मात् ( 1 ) सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम् ||२३७॥
सर्व्वथा आत्मग्रह आत्मनि स्नेहमलमत्यर्थं द्रढयति ( 1२३७)
स आत्मग्रहश्चात्मोपकारिषु ।
आत्मस्नेहीजन्तु तदवस्थं व्यवस्थितम् ।
आत्मीयस्नेहबीजं तदवस्थं व्यवस्थित मिति तत्प्रतिबद्धानां दोषाणाञ्चानि
वृत्तिः ।
d. स्यादेतद् (1)आत्मीये दोषदर्शनाद्वैराग्यमुत्पद्यते इत्याह (1) यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥२३८॥ वृत्तिमान् प्रतिबध्नाति, तद्दोषान् संवृणोति च ।
दोषदर्शनात् यत्नेपि सति तावत्कालमात्मीयेषु वैराग्यं यदुत्पन्नं तदात्मस्नेहो वृत्तिमानात्मीयेषु गुणलेशस्य सुखसाधनत्वस्य समाश्रयणात् (२३८) प्रतिबध्नाति । तद्दोषाँश्च दुःखसाधनादीन् संवृणोति । तत् कुत आत्मस्नेहवत आत्मीये वैराग्ययोगः। आत्मस्नेहस्य सर्व्वदोषमूलत्वात् * ( 1 )
आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥ २३९॥
आत्मन्यपि विरागश्चेद्वाध्यते ननूक्तमत्र । न चात्मनि निर्दोषे स्नेहापगमकारणमस्ति। भवतु तावत्तथापीदानीमत्रापि पक्षे यो यत्र विरज्यते ( | २३९ ) त्यजत्यसौ यथात्मानं व्यर्था तो दुःखभावना । दुःखभावनयाऽप्येष दुःखमेव विभावयेत् ॥ २४० ॥
तेन स तं त्यजति यथात्मानं । न ह्यात्मनि विरक्तोपि तं त्यजति, तथात्मीयेपि विरक्तस्तं न त्यक्ष्यतीति व्यर्थ [1] तो दुःखभावनाऽत्मनोऽत्यागात् । दुःख
१ सुखादिभोक्तेत्यादि । २ नैरात्म्ये विशेषात् ।