________________
सत्कायवृष्टिः ... वैराग्याच्च (1)
किश्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया ।।२३४॥ किञ्चित्सौख्यं परिणतिदुःखबहुलं परित्यजेदात्मकामो विशिष्टस्य सुखस्य . परिणामाविरुद्धस्य तमया अभिलाषण। यदा स्वात्मनि सति न किञ्चित्सुखैकरूपं सर्च सुखं दुःखसंमिश्रं तदा क्व परिहारः कस्मिन्ननुरागः स्वीकारो न चेच्छया 17b शक्यपरिहाराः स्नेहादयः तत्कारणस्यात्मनोऽवैकल्यादित्युक्तं । (२३४)
b. नन्व नैरात्म्यपक्षेपि दुःखं सकलं। तन्निरोधः परसुखं। तत्क्वचित्तृष्णया प्रवृत्तिर्न स्यादित्याह (1)
- नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते।
अलामे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥२३५॥ नैरात्म्यतत्त्वेऽध्यारोपादा त्मस्नेहात्सुखविपर्यासात् दुःखेष्वपि सुखतयाऽध्यवसितेषु विषयेषु यथालाभं प्राप्त्यनुक्रमेण प्रवृत्तिर्भवति निर्वाणसुखव्युत्पत्त्यभावात्। व्युत्पत्तावपि तन्मार्गसात्मत्वाभावात्। सात्मीकृतमाग्र्गास्तु क्वचिन्न प्रवर्तन्त' एव। तथा चालाभे मत्तकासिन्या मत्तमजगामिन्या कामुकस्य तिर्यक्ष कामिता दृष्टा। बलवानात्मस्नेहो विशिष्टसुखसाधनस्यालाभे सुखाभासहेतौ च प्रवर्तयति । (२३५)
c. किञ्च (1) यदि बुद्धीन्द्रियशरीरादीनां दुःखहेतुत्वात् तेषु वैराग्यात्तत्यागात् कवल्यमात्मन इष्टं। मुक्तिदशायान्तदात्मभोगादिसकलपरिच्छेदाभावात् नाशाविशेषान्नाश एवेष्ट: स्यात् (1) तच्चेदमयुक्तमित्याह (1)
____ यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति ।
यस्यात्मा वल्लभ स्तस्य स कथं नाशमिच्छति न नाशं कैवल्य मप्रतीतिविषयत्वादिच्छति। कथं पुनः केवलमात्मानमिच्छन् नाशमिच्छतीत्याह (1) ... .
निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥२३६॥ इच्छेत् प्रेम कथं ;
!
'यदि नैरात्म्यमेव सर्वधर्माणां वस्तुतस्तदाऽप्रवृत्तिस्तत्कार्य स्थान चास्तीत्याह। नैराश्ये नैरात्म्ये तत्त्वे मूलव्याख्या, स्यादेतचदि नैरात्म्यज्ञानं स्यात् किन्त्वज्ञानावारोपात् प्रवर्तते। आत्मारोपात्।
'सांख्यस्य। देही एव मुक्तः।