________________
प्र० वा. वृतो (१ परिच्छेदः) प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥२३०॥
'व्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा ।* • एतच्च प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् । (२३०) च्युतेष्वात्मीयबुद्धिविषयेषु सघृणा बुद्धिर्जायते। जनस्यान्यत्राच्युतेष्वात्मीयबुद्धिविषयेषु सस्पृहा।
___ (ड) आत्मात्मीयबुद्धयोर्हानिः दुःखभावनया आत्मीयबुद्धिरेव हीयत इति चेत्। न युक्तमिदं (१) .
समवायादिसम्बन्धजनिता तत्र हि स्वधीः ॥२३१॥ समवायादिसम्बन्धजनिता हि यस्मात्तत्र बुद्धयादौ स्वधीः। तथा चात्मनः सुखादिना समवायः सम्बन्धः। शरीरेण संयोगः। शरीराश्रितः रूपादिभिः संयुक्तसमवायः। श्रोत्रेन्द्रियेण संयोगश्चक्षुरादिभिः संयोगिसंयोग आत्मसम्बन्धः। (२३१)
स तथैवेति सा दोषदृष्टावपि न होयते ।
समवायाद्यभावेऽपि सवत्रास्त्युपकारिता ॥२३२॥ स दुःखभावनायामपि तथैवेति सा स्वधीर्दोषदृष्टावपि न हीयते निमित्तस्यावैकल्मात् । अथ स'मवायादिर्नास्त्येव तदा। समवायाधभावेऽपि सर्वत्र बुद्धयादावल्युपकारिता तत्कृता। (२३२)
दुःखोपकारान्न भवेदगुल्यामिव चेत् स्वधीः।
मोकान्तेन सद् दुखं भूयसा सविषान्नवत् ॥२३३॥ ___ तत्र स्वधीरशक्यधारणा दुःखोपकारात् दुःखोपनिधानात् न भवेदहिंदष्टायामगुल्यामिव स्नेहबुद्धयादौ स्वधीरिति चेत्। न ह्येकान्सेन तत्स्नेहादिदुःखं दुःखहेतुः पर्यायेण सुखहेतुत्वादपि। किन्तु भूयसा तदुःखं सविषान्नवत् । परिणतिदुःखहेतुरपि विषानमापातसुखं च। (२३३) ___a. ननु सदिषमन्नं सुखमिश्रञ्च वैराग्यविषयः स्वहितकामानामेवं' स्नेहादिरपि स्यादित्याह (1)
विशिष्टसुखसमात् स्यात् तविरुद्ध विरागिता। विशिष्टे सुखे सुखसाधने तदात्परिणामयोरनुग्रहीतरि विषादिदोषरहितभोजनादौ सङ्गादभिष्वङ्गात् स्यात्तद्विल्वे सविषान्नादौ विरागिता।
'सांख्यं प्रत्याह (1) प्रकृतिपुरुषान्तरज्ञानान्मुक्तः। । 'उपभोगाङ्गत्वेन वृत्तेः। । उपसमीपे निधानमर्पणन्ततः यथात्मा न त्यज्यते तवायमपि।