________________
. . . सत्कायदृष्टिः ...... का वा सदोषता दृष्टा स्नेहे येनायं वर्जयितव्यः । दुःखस्य समामयश्चेद्दोषः। तथा ह्यात्मनि स्निह्यन् तत्सुखसाधनेषु तृष्णावान् दुःखभूतं संसारमुपादत्ते ॥ (२२६)
तथापि न विरागोऽत्र स्वत्वदृष्टेयथात्मनि। .. तथापि दुःखहेतुत्वेपि न विरागोऽत्र स्नेहे यथात्मनि स्वत्ववृष्टः दुःखनिदानभूताया हेतावात्मनि न विरागः।
यदि दुःखहेतौ विरागस्तथा स्वत्वे दृष्टिद्वारेण सव्वं दुःखमिति तस्य हेतावात्मन्येव स युक्तः। न चास्त्येतत् । - न तैर्विना दुःखहेतुरात्मा चेत् तेऽपि तादृशाः ॥२२॥ -----
न तैः स्नेहबुद्धीन्द्रियादिभिरात्मीय विना कुःलहेतुरात्मा चेत्। तेपि स्नेहादयः तादृशा आत्मानमन्तरेण न दुःखहेतवः। (२२७)
निर्दोष द्वयमप्येवं वैराग्यान द्वयोस्ततः। . दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत् ।।२२८॥
एवं परस्परसापेक्षत्वे निर्बोष द्वयमपि स्नेहादिरात्मा च । वैराग्यन्न बमोरपि ततः का। तथा च संसारो दोषाश्च दुर्व्वारा हेतुसाकल्यात्। प्रवृत्तिः यदि स्नेहादिषु दुःखभावनया हानिः स्यात्। अहिबष्टस्याङ्गस्प हानिवत् । यथात्मीयमप्यहिदष्टमङ्गं दुःखवशाद् विरज्य त्यज्यते । अनुपभोगाश्रयत्वात्। . (२२८)
आत्मीयबुद्धिहान्याऽत्र त्यागो न तु वियर्यये । उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु ॥२२९॥
स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः। आत्मीयबुद्धिहान्या। तत्राहिदष्टाङ्गे त्यागो न तु विपर्यये आत्मीयबुद्धिसत्तायां। यस्मादुपभोगस्याश्रयत्वेन कारणत्वेन गृहीतेष्विन्द्रियादिषु (२२९) स्वत्वे पीरा त्मीयत्वबुद्धिः के न हेतुना बार्येत न केनचित्। तत्कुतस्तत्रोपभोगसाधने स्वीयावयवे वैराग्यं येन त्यज्यते। ततो यत्त्यज्यते आत्मीयबुद्धिहान्या एव। न चैवं स्नेहादिष्वात्मीयबुद्धिहानिरस्ति येनैषां त्यागः स्यात्।
'करणीयं। 'तस्मात्सा।
१२