________________
प्र० वा. वृत्तौ (१ परिच्छेदः) ___ या गप्यात्मा निर्दोषस्तथापि स्नेहः सदोष इति चेत्। ततः सदोषत्वात् कि कर्तव्यं तस्य स्नेहस्य वर्जनम् (१२२३)
अदूषितेऽस्य विषये न शक्यं तस्य वर्जनम् ।
अदूषितस्य विषय आत्मनि न शक्यं तस्य वर्जनं। न हि स्नेहः स्वगुणदोषा17 भ्यामुपादीयते त्यज्यते वा किन्तु विषयस्य विषयश्च निर्दोष इति कथमस्य वजनं।
किञ्च (1) ___प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धिनः ॥२२४॥
तयोरदृष्टिविषये; इच्छाद्वेषादेर्गुणदोषानुबन्धिनो यथाक्रमं विषयस्य गुणदोषानुवर्तिनः प्रहाणिः प्रहाण्युपायः (२२४)। तयोर्गुणदोषयोरदृष्टिविष येऽनन्योपायतादर्शनार्थमुपचारः । विषयगुणदोषादर्शने एवेच्छा द्वेषादिप्रहाण्युपाय इत्यर्थः। नन्वदृष्टोपि इत्यादिरनिच्छामात्रात् त्यज्यमानो दृश्यत' इत्याह (1).
न तु बायेषु यः क्रमः। न तु बाह्येषु वस्तुषु यः क्रमोनिच्छामात्रकृतत्यागरूपः स आन्तरेष्वपि स्नेहादिषु युक्तः। बाह्याधीनं बाह्यमनिच्छया त्यक्तुं शक्यं आत्मदर्शनाधीनन्तु न शक्यपरिहारं। अविकलहेतुत्वेनोत्पत्तेः ।
किञ्च (1) ... न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात् ॥२२५॥
. कारणेऽविकले तस्मिन् कार्य केन निवार्यते । न हि स्नेहगुणात्स्नेहः क्रियते किन्त्वर्थस्य विषयस्य गुणदोषदर्शनात् जायते (२२५) कारणेऽविकले तस्मिन् विषयगुणे कार्य स्नेहः केन निवार्यते। न
केनचित्।
का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ॥२२६॥
नचात्मनि निर्दोषे स्नेहापगमकारणमस्ति" इतिवक्तुमुचितं व्याख्यानम् । इदमेव समर्थयते।
इच्छाविषये गुणवृष्टः प्रवर्ततो द्वेषो दोषदृष्टः तेनात्मवृष्टयाऽगतो भिवङ्गस्त() दृष्टेरपति। तत्किमात्मनि तद्विषयेऽवश्यन्तयाऽदर्शनमपेक्षते।