________________
सत्कायवृष्टिः
यः पश्यत्यात्मानं तत्रात्मन्यस्य द्रष्टुरहमिति शाश्वतोऽनपायिस्नेहो भवति (२१९) ।
स्नेहादात्मस्नेहात्सुखेषु तृष्यति । तृष्णावान् भवतीति । तृष्णा च सुखसाधनत्वेनाध्यवसितानां वस्तूनां दोषानशुचित्वादीन् तिरस्कुरुते प्रच्छादयति दोषति - रस्करणात् ।
गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते ॥ २२०॥ तेनात्माभिनिवेशो यावत् तावत् स संसारे ।
गुणदर्शी शुचित्वेष्टत्वगुणान् पश्यन् परितृष्यन् ममेति ममेदं सुखमिति गर्द्धमानस्तस्य सुखस्य साधनानि गर्भगमनादीन्युपादत्ते । ( २२० )
तेनात्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेशो यावत्तावत् स आत्मदर्शी संसार
एव (1)
d. न केवलं जन्मप्रबन्धस्तस्य दोषा अपि समस्ताः सन्तीत्याह ( 1 ) अत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ॥२२१॥ अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ।
आत्मनि सति ततोऽन्यस्मिन् परसंज्ञा परबुद्धिर्भवति । स्वपरविभागाच कारणात् स्वपरयोर्यथाक्रमं परिग्रहोऽभिष्वङ्गो द्वेषः परित्यागस्तौ भवतः (२२१ ) । अनयोरनुनयप्रतिषेधयोः संप्रतिबद्धाः सर्व्वे दोषा रागमात्सर्येर्ष्यादयः प्रजायन्ते ।
८७
e. यद्यप्यात्मनि स्नेहवान् तथाप्यात्मीये सुखसाधने वैराग्यान्न संसरतीति चेत् । नैतद्युक्तं यत (:1 )
नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥ २२२॥
आत्मनि स्निन् प्रीयमाणस्तदीय आत्मी' ये सुखसाधने नियमेन ( न ) विरज्यतेऽभिष्वजत्येव तत्कथमात्मीयविरागान्मुक्तिः । आत्मस्नेहस्यात्मीयवैराग्यविरोधित्वात् । (२२२)
f. तमेव त्यजतीति चेत् आह (1)
न चात्यात्मनि निर्दोषे स्नेहापगमकारणम्' । स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम् ॥२२३॥
.१ आत्मदर्शनं मूलं यस्य जन्मादेः । आत्मस्नेहं ।
नैतच्छ्लोकाद्धं विवृतं वृत्तिकृता ।