________________
८६
प्र० वा० वृत्तौ (१ परिच्छेदः)
तद्विरोधाश्च तन्मयैः ॥२१६॥ विरोधः शून्यतादृष्टेः सर्वदोषैः प्रसिध्यति ।
तया सत्त्वदृष्ट्या विरोधाच्च शून्यतादृष्टेनैरात्म्यदृष्टेः । तन्मयैः ( २१६ ) सत्त्वदृष्टिहेतुकैः सर्व्वदोषैव्विरोधः सिध्यति । शीतविरुद्धस्याग्नेरिव तत्कार्ये रोमहर्षादिभिरतः सात्मीभूतनैरात्म्यानां न पुनर्दोषलेशोत्पत्तिरनेन निःशरणत इति निरोधाकारो निद्दिष्ट : दोषेभ्यः सर्व्वथा निःशरणात् ।
(घ) दोषाः प्रतीत्यसमुत्पन्नाः
नाक्षयः प्राणिधर्मत्वाद् रूपादिवदसिद्धितः ॥२१७॥ सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि ।
2. स्यादेतदक्षयो रागादिः प्राणिधर्मत्वाद्रूपादिवत् न युक्तमेतदसिद्धितः । न हि प्राणी कश्चिदस्ति यद्धर्मा रागादयः सिद्धयन्ति । सत्त्वे दृष्टौ तु सत्यां केवल 'मुपलभ्यन्त इति प्रतीत्यसमुत्पादमात्रमेतत् ( २१७ ) । तेषां प्रतिपक्षस्य नैरात्म्यदर्शनस्य सम्बन्धे संमुखीभावे त्यागस्यापातविष्कम्भण' स्यादर्शनादपि सम्भवत्प्रतिपक्षत्वेनोच्छेदसम्भवात् नाक्षयित्वं ।
- b. स्यादेतत् (1) ताम्रादीनामग्नियोगाद् द्रवावस्थायां नष्टमपि काठिन्यं पुनः शीतसम्पर्कादुत्पद्यते । तद्वन्नष्टानामपि दोषाणां मार्गसात्म्ये पुनः कुतश्चिद्धेतोरुत्पत्तिः स्यात्। अत्राह (1)
न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः ॥२१८॥ सात्मत्वेनान पायत्वात् अनेकान्ताच्च भस्मवत् ।
न काठिन्यवदुत्पत्तिः पुनर्दोषाणां । दोषविरोधिनो (२१८) नैरात्म्यस्य सात्मत्वेन प्रकृतित्वेनानपायात् । न ह्यव्याहते विरोधिनि तद्विरुद्धस्योत्पत्तिरग्नाविव शीतकाठिन्यं कादाचित्कत्वादग्निनिवृत्तौ तद्विरोधिन्या द्रवतायाः स्वरस - निरोषादुत्पद्यतेऽनैकान्ताच्च भस्मवत् । यथा भस्मनि भूते पुनर्न काष्ठोत्पत्तिस्तथा नैरात्म्यसात्मतायां न पुनर्नष्टानां दोषाणामुत्पत्तिरित्यनैकान्तिकता नष्टोत्पत्तेः । c. नन्वात्मभावनयापि मोक्षोस्ति तत्किं नैरात्म्यभावनया यदाहु"रात्मा मन्तव्यो निदिध्यासितव्य" इत्यादि । अत्राह ( 1 )
प्र्यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः ॥ २१९ ॥ स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ।
१ रज्ज्वां सर्पबुद्धिवदपैति च ।
२
वैधर्म्यदृष्टान्तमाह ।