________________
... सत्कायदृष्टिः .. ननु मोहोऽसंप्रख्यानरूपः। सत्त्वदृष्टि: तु विपरीतार्थप्रतिपत्तिरूपा। तत्कयं मोह एव सत्त्वदर्शनमित्याह (1)
विद्यायाः प्रतिपक्षत्वाच्चैत्तत्त्वेनोपलब्धितः ॥२१५॥
मिथ्योपलब्धिरज्ञानं युक्तश्चान्यदयुक्तिमत् । विद्यायाः प्रतिपक्षत्वात्। विद्याया नैरात्म्यदृष्टेविपक्षोऽविद्या। स चाप्रख्यान'मात्रम्वा रूपादि वा न भवति निर्वाणेपि तयोर्भावात्। किन्तु मिथ्योपलब्धिरज्ञानमविद्याऽधर्मानृतवत् । विद्यायाः सदर्थत्वात् । चैत्तत्वेनोपलब्धितश्च । चैत्तत्वेन करणेनोपलब्धिरूप'त्वाच्च । (२१५) आश्रयालम्बनाकारकालद्रव्यसमतादिभिः समं प्रयुक्ताः संप्रयुक्ता इति संप्रयुक्तलक्षणं। न चासंप्रख्यानस्य नीरूपस्यालम्बनाकारयोग इति मिथ्याज्ञानमविद्या। उक्ते ऽर्थे विरोधात्। भगवता प्युक्तं "याः काश्चन लोकव्यवहारोपपत्तयः सस्तिा आत्माभिनिवेशतो भवन्ति आत्माभिनिवेशविगमतो न भवन्ति” इत्यनेन सत्त्वदृष्टिरेव जन्महेतुरुक्ता। आत्माभिनिवेशलक्षणत्वात्त स्याः। अतोऽन्यदसंप्रख्यानलक्षणमज्ञानमयुक्तं निर्वाणेपि तत्सत्त्वात्।
a. ननु यद्यविद्या दृष्टिरेव तथा च दृष्टिसंप्रयुक्ता विद्येति संप्रयुक्ताओं नस्यात्। न सा तेनैव सम्प्रयुक्ता किन्तु सकलक्लेशानुगताऽविद्या (1) सत्कायदृष्टिस्तु तदेकदे °शः ततश्चागमाविरोध इत्याह ।(1)
व्याख्येयोऽत्र विरोधो यः। ___ अत्र विद्यानिर्देशे आगमविरोधो यः प्रसजति स सामान्यविशेषभावेन भेदकल्प' नया व्याख्येयः समर्थनीयः । यथा पलाशयुक्तम्वनमिति । दृष्टिस्वभावाऽविद्याप्राधान्येन क्लेशहेतुरित्युपदर्शनञ्च प्रयोजनं।
b. प्रकृतमाह (1) यतश्चैवमात्मदर्शनप्रभूताः सर्व्वक्लेशाः।
१अभावस्तस्य। तदर्थः।
'विद्याविरुद्धाऽविद्या। युगपदनुत्पत्तिस्तु रागानिमित्तान् ग्रहाघातवस्तुबहुलीकरणाद्यसाधारणं कारणवत्त्वात्। . अविद्यायाः। 'युक्ति प्रतिपाद्यागममाह। • अविद्यायाः।
असंप्रल्यानस्य सत्त्वात्। तस्मात्पूर्वोक्तवाविधा। १० यथा पलाशावियुक्तं वनं पाण्यादियुक्तं शरीरं॥ १" इत्यभिप्राय आह। १२ अविद्या। दृष्टि। १४पाणेरिव शरीरात्।