________________
प्र० वा० वृत्तौ (१ परिच्छेदः)
2. न बाधा नैरात्म्यस्य सात्मीभूतस्य स्वभावस्यास्ति । 'बुद्धेस्तत्र दोषप्रतिपक्षे गुणवति मार्गे पक्षपातात् ।
८४
न हि स्वभावः साक्षात्कृतोऽन्यथा कर्तुं शक्यः । अनेन प्रणीत इति निरोधाकारो दर्शितः ।
b. ननु यदि नैरात्म्यसात्मत्वदर्शनयोः परस्परभेदाद् बाधा तदा राग * प्रतिघयोरपि स्यादित्याह (1)
श्रात्मग्रहै कयोनित्वात् ;
कार्यकारणभावतः ॥२१३॥
रागप्रतिघयोर्बाधा भेदेऽपि न परस्परम् ।
आत्मग्रह एको योनिष्कारणं ययोस्तौ तयोर्भावस्तस्मादेककारणत्वात् रागप्रतियोर्भेदेपि न परस्परं बाधा रूपरसयोरिव । तथा कार्यकारणभावतोपि (२१३) नान्योन्यं बाधा । तथाहि यदैकस्मिन् रागस्तदा तदपकारिणि द्वेषः । यदा च क्वचिद् द्वेषस्तदा तदपकारिणि रागोपीति परस्परकार्यकारणभावान्नास्ति विरोधः । चक्षुरादिबुद्धीनामिव ।
c. ननु द्वेषादिप्रतिपक्षा - मैत्र्यादयो न च तानुच्छिन्दन्तीत्याह ( 1 ) मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः ॥ २१४॥ तम्मूलाश्च मलाः सर्वे ;
I
मोहाविरोधान्मैत्र्यादेः । मैत्रीकरुणादयो मोहाविरोधिनोऽतश्च दोषकारणावैकल्यान्नात्यन्तं द्वेषादिदोषाणां निग्रहो मैत्र्यादेः । आपातविष्कम्भनमात्रन्तु
भवति मोहस्यानपायात् ( २१४ ) । तन्मूलाश्च मलाः सर्व्वे प्रसूयन्ते ।
(ग) मोहः सत्कायदृष्टिः
ननु सत्त्वदर्शनं दोषमूलं न मोह इत्याह ( 1 )
स च मोह: सत्कायदर्शनं ।
स च सत्कायदर्शनम् ।
१ चित्तसंप्रयुक्तत्वात् चंत्तानां संप्रयुक्ताऽविद्येत्याह । २ विरोधात् ।
न चास्त्येकभावनया परस्यात्यन्तनिरोधो लोक इत्यनेकान्तमाह ।
४ लक्षणभेदेपि नात्यन्तविरोधस्तयोः । ५ भेदेप्येकमन्यहेतुः ।