________________
स्वोपज्ञलघुवृत्तिः ।
अन्तःशब्दात्परस्याऽयनस्य हन्तेश्चनो देशेर्थे ण न स्यात् । अन्तरयनो ऽन्तर्द्दननां वा देशः । देशइति किम् । अन्तरयणम् । अन्तर्हेण्यते ॥ पात्पदे । २ । ३ । ९२ ।
पदे परतो यः षस्ततः परस्य नो ण न स्यात् । सर्पिष्यानम् । पदइति किम् । सर्पिष्केण ॥ ९२ ॥ पदेऽन्तरेऽनाडु तद्धिते । २ । ३ । ९३ ।
आङन्तं तद्धितान्तं च मुक्त्वा ऽन्यस्मिन् पदे निमित्तकार्यिणोरन्तरेनो ण न स्यात् । प्रावनद्धम रोष भीममुखेन । अनाङीति किम् । प्राणद्धम् । अतद्धितइति किम् । आर्द्रगोमयेण ॥ ९३ ॥
हनोघि । २ । ३ ।
९४ । हन्तेनों घनिमित्तकार्यिणोरन्तरे सति ण् न स्यात् । शत्रुघ्नः ॥९४॥
नृतेर्यङि । २ । ३ ।
९५
।
नृतन यविषये ण् न स्यात् । नरीनृत्यते । नरिनति । यङीति किम् । हरिणत नाम कश्चित् ॥ ९५ ॥
क्षुम्नादीनाम् । २ । ३ । ९६।
एषां नो णं न स्यात् । क्षुम्नाति । आचार्यानी ॥ ९६ ॥ पाठेधात्वादेर्णो नः । २ । ३ । ९७ ।
पाठे धात्वादेर्णो न स्यात् । नयति । पाठइति किम् । णकारीयति । आदेरिति किम् । रणति ॥ ९७ ॥
षः सोष्टचैष्ठिवष्वष्कः । २ । ३ । ९८ ।
पाठेधात्वादेः षः सः स्यात् नतु ष्ट्यैष्ठिवष्वष्कां सम्बन्धी स्यात् । सहते । आदेरित्येव लषति । ष्ट्यादिवर्जनं किम् । ष्ट्यायति । ष्ठीव्यति । वष्कते ॥ ९८ ॥
१०
१३