SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य व्यञ्जनादे म्युपान्त्याद्वारा२।३।८७। अदुरुपसर्गान्तःस्थाद्रादेः परो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्ततः परस्य कृतः स्वरात्परस्य नो ण वा स्यात् । प्रमेहणम् । प्रमेहनम् । व्यञ्जनादेरिति किम् । प्रोहणम् । नाम्युपान्त्यादितिकिम् । प्रवपणम् । प्रवहणम् । स्वरादित्येव । प्रमुग्नः। अदुरित्येव । दुर्मोहनः । अलचटादिवर्जनं किम् । प्रभेदनम् । प्रभोजनम् । स्वरादित्यनेन नित्यप्राप्ते विभाषेयम् ॥ ८७॥ __णे । २।३।८८। अदुरुपसर्गान्तःस्थाद्रादेः परस्य ण्यन्तस्य धाताविहितस्य स्वरात्परस्य नो ण वा स्यात् । प्रमङ्गणा । प्रमङ्गना। विहितविशेषणं किम् । प्रयाप्यमाणः । प्रयाप्यमानः । इतिक्यान्तरेपि स्यात् ॥ ८८॥ निर्विण्णः।२।३।८९। निर्विदेः सत्तालामविचारणार्थात् परस्य क्तस्य नो णत्वं स्यात् । निर्विण्णः ॥ ८९ ॥ न ख्यापूग्भूभाकमगमप्यायवेपो णश्च ।२।३।९० । अदुरुपसर्गान्तःस्थाद्रादेः परेभ्यः ख्यादिभ्यो ऽण्यन्तण्यन्तेभ्यः परस्य कृतो नो ण न स्यात् । प्रख्यानम् । प्रख्यापनम् । प्रपवनम् प्रपावनम् । प्रभवनम्। प्रभावनम् । प्रभायमानम् । प्रभायना । प्रकामिनौ । प्रकामना । अप्रगमनिः। प्रगमना । प्रप्यानः। प्रप्यायना। प्रवेपनीयम्। प्रवेपना ॥ ९॥ देशेऽतरोऽयनहनः ।२।३।९१ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy