SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ हैमशन्दानुशासनस्य अदुरुपसर्गान्तरोहिणनुमीनानेः।२।३७७ दुर्वलॊपसर्गस्थादन्तःशब्दस्थाच रादेः परस्यैषां नो ण् स्यात् । णेतिणोपदेशाधातवः । प्रणमति । परिणायकः । अन्तर्णयति । हिनुः । प्रहिणुतः। मीना । प्रमीणीतः । आनि । प्रयाणि । अदुरिति किम् । दुर्नयः ।। ७७॥ नशः शः ।२।३।७८। अदुरुपसर्गान्तःस्थादादेः परस्य नशः शन्तस्य नो ण् स्यात् । प्रणश्यति । अन्तर्णश्यति । शइति किम् । प्रनयति ॥ ७८ ॥ नेङादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्ति देग्धौ । २।३। ७९। अदुरुपसर्गान्तःस्थादादेः परस्योपसर्गस्य नेनों माडादिषु परेषु ण् स्यात् । प्रणिमिमीते । परिणिमयते । प्रणिददाति । परिणिदयते । प्रणिदधाति । प्रणिपतति । परिणिपद्यते । प्रणिनदति । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणियाति । प्रणिवाति । प्रणिदाति । प्रणिप्साति । प्रणिष्यति । प्रणिहन्ति । प्रणि. देग्धि । अन्तर्णिमिमीते ।। ७९॥ अकखाद्यषान्ते पाठे वा।२।३।८०। धातुपाठे कखादिः षान्तश्चयो धातुपाठस्ताभ्यामन्यस्मिन् धातौ परे ऽदुरुपसर्गान्तःस्थाद्रादेः परस्य ने! ण् वा स्यात् । प्रणिपचति । प्रनिपचति । अकखादीति किम् । प्रनिकरोति । प्रनिखनति । अपान्तइति किम् । प्रनिदेष्टि । पाठइति किम् । प्रनिचकार ॥ ८०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy