________________
स्पोपलवृत्तिः । पूर्वपदस्थाद्रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात् । क्षीरपाणा उशीनराः । देशइति किम् । क्षीरपानाः गोदुहः ॥ ७० ॥
ग्रामाग्रान्नियः ।२।३।७१। आभ्यां परस्य नियो ण् स्यात् । ग्रामणीः । अग्रणीः ॥ ७१ ॥ वाह्याहाहनस्य । २।३ । ७२ । वाह्यवाचिनो रादिमतः पूर्वपदात्परस्य वाहनस्य नो ण् स्यात् । इक्षुवाहणम् । वाह्यादिति किम् । सुखाहनम् ॥ ७२ ॥
अतोऽहस्य।२।३। ७३ । रादिमतोऽदन्तात् पूर्वपदात् परस्याह्नस्य नो ण् स्यात् । पूर्वाह्नः । अतइति किम् । दुरहः । अह्नस्येति किम् । दीर्घाह्री शरत् ॥
चतुस्नेहायनस्य वयसि।२।३।७४।
आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नो ण् स्यात् वयसि गम्ये । चतुर्हायणो वत्सः । त्रिहायणी वडवा । वयसीति किम् । चतुर्हायना शाला ॥ ७४ ॥ वोत्तरपदान्तनस्यादेरयुवपक्काहः।२।३।७५॥
पूर्वपदस्थाद्रादेः परस्य उत्तरपदान्तभूतस्य नागमस्य स्यादेश्च नो ण् वा स्यात् चेयुवन् पक्वाहन सम्बन्धी न स्यात् । व्रीहिवापिणौ। व्रीहिवापिनौ। माषवापाणि । माषवापानि । व्रीहिवापेण । व्रीहिवापेन । युवादिवर्जनं किम् । आर्ययूना। प्रपक्कानि । दीर्घाह्री शरत् ॥ ७५ ।।
कवणुकस्वरवति ।२।३।७६। पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकवरवति चोत्तरपदे सति उत्तरपदान्तनस्यादेनोंण् स्यात् नचेदसौ पकस्य । स्वर्गकामिणौ। वृषगामिणौ। ब्रह्महणौ । यूषपाणि । अपक्कस्येत्येव । क्षीरपक्वेन ॥ ७६ ॥