SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ९२ हेमशब्दानुशासनस्य संज्ञायाम् । गुणसः। खरणाः । शूर्पणखा । नाम्नीति किम् । मेषनासिकः । अग इति किम् । ऋगयनम् ॥ ६४ ॥ नसस्य । २ । ३ । ६५ । पूर्वपदस्थापृवर्णात् परस्य नसस्य नो ण् स्यात् । प्रणसः ॥ ६५ ॥ निष्प्राऽग्रेऽन्तः खदिरकार्याघ्रशरेनुप्लक्षपीयूक्षाभ्यो वनस्य । २ । ३ । ६६ । निरादिभ्यः परस्य वनस्य नो ण् स्यात् । निर्वणम् । प्रवणम् । अग्रेवणम् । अन्तर्वणम् । खदिरवणम् । कार्यवणम् । आम्रवणम् । शरवणम् । इक्षुवणम् । प्लक्षवणम् । पीयूक्षावणम् || ६६ ॥ द्वित्रिस्वरौषधिवृक्षेभ्यो नवा ऽनिरिका दिभ्यः । २ । ३ । ६७ । द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधिवृक्षवाचिभ्यः परस्य वनस्य नो ण् वा स्यात् । दुर्वावणम् । दुर्वावनम् । माषवणम् । माषवनम् । नीवाणम्। नीवावनम् । वृक्षः । शिवणम् । शिश्रुवनम् । शिरीषवणम् । शिरीषवनम् । इरिकादिवर्जनं किम् । इरिकावनम् ॥ ६७ ॥ गिरिनद्यादीनाम् । २ । ३। ६८ । एषां नो ण् वा स्यात् । गिरिणदी। गिरिनदी । तुर्यमाणः । तुर्यमानः ॥ ६८ ॥ पानस्य भावकरणे | २।३।६९। पूर्वपदस्याद्वादेः परस्य भावकरणार्थस्य पानस्य नो ण् वा स्यात् । क्षीरपाणं क्षीरपानं स्यात् । कषायपाणः । कषायपानः कंसः ॥ ६९ ॥ देशे । २ । ३ । ७० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy