SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । श परे ब् स्यात् । प्रादुःष्यात् । विष्यात् । निष्यात् । प्रादुःषन्ति । विषन्ति । निषन्ति । यस्वर इति किम् । प्रादुःस्तः ॥ ५८ ॥ नस्सः । २ । ३ । ५९। कृतद्वित्वस्य सस्य षू न स्यात् । सुपिस्स्यते ॥ ५९ ॥ सिचो यङि । २ । ३ । ६० । सिचः सो यङि प् न स्यात् । सेसिच्यते ॥ ६० ॥ गतौ सेधः । २ । ३ । ६१ । गत्यर्थस्य सेधः सः ष् न स्यात् । अभिसेधति गाः । गताविति - किम् । निषेधति पापात् ॥ ६० ॥ सुगः स्यसनि । २ । ३ । ६२ । सुनोतेः सः स्ये सनि च ष् न स्यात् । अभिसोष्यति । सुसूषते । क्विप् । सुसूः ॥ ६२ ॥ रपृवर्णान्नोण एकपदे ऽनन्त्यस्यालचटत'वर्गशसान्तरे । २ । ३।६३ । एभ्यः परस्यैभिस्सहैकस्मिन्नेव पदे स्थितस्यानन्त्यस्य नो णः स्यात् लचटतवर्गान् शसौ च मुक्त्वाऽन्यस्मिन्निमित्तकार्यिणोरन्तरेपि । तीर्णम् । पुष्णाति । नृणाम् । नृणाम् । करणम् । वृंहणम् । अर्केण । एकपद इति किम् । अग्निर्नयति । चर्मनासिकः । अनन्त्यस्येति किम् । वृक्षान् । लादिवर्जनं किम् । विरलेन । मूर्च्छनम् । दृढेन । तीर्थेन । रशना । रसना ॥ ६३ ॥ पूर्वपदस्थान्नाम्न्यगः । २ । ३ । ६४ । गन्तवर्ज पूर्वपदस्थावरवर्णात् परस्योत्तरपदस्थस्य नो न स्यात
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy