________________
हेमशन्दानुशासनस्य विपूर्वस्य स्कन्दः सः ष् वा स्यात् न चेत् तक्तवतू स्याताम् । विष्कन्ता विस्कन्ता।अक्तयोरिति किम् । विस्कन्नः विस्कन्नवान् ॥५१॥
परेः।२।३।५२। ____ परेः स्कन्दः सः ष वा स्यात् । परिष्कन्ता।परिस्कन्ता।परिष्कन्नः। परिस्कन्नः ॥ ५२ ॥
निर्नेः स्फुरस्फुलोः।२।३।५३।
आभ्यां परयोः स्फुरस्फुलोः सः ष्वा स्यात्।निःष्फुरति । निःस्फुरति। निष्फुरति । निस्फुरति । निष्फुलति । निःस्फुलति । निष्फुलति । निस्फुलति ॥ ५३ ॥
वेः । २।३।५४। वेः परयोः स्फुरस्फुलोः सः वा स्यात् । विष्फुरति । विस्फुरति। विष्फुलति । विस्फुलति ॥ ५४ ॥ - स्कम्नः । २।३।५५ । ।
वेः स्कम्नः सः ष् नित्यं स्यात् । विष्कम्नाति ॥ ५५ ॥ निःसुवेः समसूतेः। २।३।५६।
एभ्यः परस्य समसूत्योः सः ष् स्यात् । निःषमः । दुःषमः । सुषमः। विषमः । निःपूतिः । दुःषतिः । सुषूतिः । विषूतिः ॥ ५६ ॥
अवः स्वपः । २।३।५७। निर्दःसुविपूर्वस्य वहीनस्य स्वपेः सः ष् स्यात् । निःषुषुपतुः । दुःषुघुपतुः । सुषुषुपतुः। विषुषुपतुः। अव इति किम्। दुःस्वप्नः ॥ ५७ ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः ।२।३।५८। प्रादुरुपसर्गस्थाच नाम्यादेः परस्यास्तेः सो यादौ स्वरादौ च