________________
स्वोपशलघुतिः सयसितस्य ।२।३।४७। परिनिवेः परस्यसयसितयोः सः ष् स्यात्।परिषयः। निषयः। विषयः। परिषितः । निषितः । विषितः ॥ ४७ ॥
असोङसिवूसहस्सटाम् ।२।३।४८ ।
परिनिविभ्यः परस्य सिवूसहोः स्सटश्च सः ष् स्यात् न चेत् सिवूसहौसोडविषयो स्याताम् । परिषीव्यति।निषीव्यति। विषीव्यति । परिषहते। निषहते। विषहते । परिष्करोति । विष्किरः।असोति किम्। परिसोढः।मापरिसीषिवत् । मापरिसीपहत् ॥ ४८॥ स्तुस्वञ्जश्चाटि नवा।२।३।४९।
परिनिवेः परस्य स्तुस्वञ्जोरसोसिवूसहस्सटां च सोऽटिसति ५ वा स्यात् । पर्यष्टौत् । पर्यस्तोत् । न्यष्टोत् । न्यस्तोत् । व्यष्टौत् । व्यसौत् । पर्यष्वजत् । पर्यस्वजत् । न्यष्वजत् । न्पस्वजत् । व्यष्वजत् । व्यस्वजत् । पर्यषीव्यत् । पर्यसीव्यत् । न्यषीव्यत् । न्यसीव्यत् । व्यषीव्यत् । व्यसीव्यत् । पर्यषहत । पर्यसहत । न्यषहत । न्यसहत । व्यषहत । व्यसहत । पर्यष्करोत् । पर्यस्करोत् । असोङसिवूसहेत्येव । पर्यसोढयत् । पर्यसीपीवत् । पर्यसीपहत् ॥ ४९ ॥ निरभ्यनोश्च स्यन्दस्याप्राणिनि।।३॥५०॥
एभ्यः परिनिवेश्च परस्याप्राणिकर्तृकार्थवृत्तेः स्यन्दः सः ष् वा स्यात् । निःष्यन्दते । निःस्यन्दते । अभिष्यदन्ते । अभिस्यन्दते । अनुष्यन्दते । अनुस्यन्दते । परिष्यन्दते । परिस्यन्दते । निष्यन्दते । निस्यन्दते । विष्यन्दते । विस्यन्दते तैलम् । अाणिनीति किम् । परिस्यन्दते मत्स्यः ॥ ५० ॥
वेः स्कन्दोक्तयोः । २।३।५१।