________________
८4
हैमशब्दानुशासनस्य प्यद्यपि ष् स्यात् । विषयश्चेत् स्तम्भिन स्यात् ।आश्रय आलम्बनम् । दुर्गमवष्टभ्नाति । अवतष्टम्भ । अवाष्टभ्नाद्वा । ऊर्ज और्जित्यम् । अहो वृषभस्यावष्टम्भः । अविदूरमासन्नमदूरासन्नं च । अवष्टब्धा शरत् । अवष्टब्धा सेना । चोऽनुक्तसमुच्चये । तेन उपष्टम्भः । अङइत्येव । अवातस्तम्भत् ॥ ४२ ॥
व्यवात् स्वनोऽशने ।२।३।४३।
वेरवाचोपसर्गात् परस्य स्वनः सोऽशने भोजने द्वित्वेप्यट्यपि ष् स्यात् । विष्वणति । अवष्वणति। विषष्वाण । अवषष्वाण । व्यष्वणत् । अवाष्षणत् । व्यषिष्वणत् । अवाषिष्वणत् । अशनइति किम् । विस्वनति मृदङ्गः ॥ ४३ ॥ सदोऽप्रतेः परोक्षायां त्वादेः ।।३।४४।
प्रतिवोंपसर्गस्थानाम्यादेः परस्य सदःसो द्वित्वेप्यट्यपि ष् स्यात् परोक्षायां तु द्वयुक्तौ सत्यामादेः पूर्वस्यैव । निषीदति । विषापद्यते । व्यषीषदत् । परोक्षायां वादेरेव । निषसाद । अप्रतेरिति किम् । प्रतिसीदति ।। ४४ ॥
स्वञ्जश्च ।२।२।४५। उपसर्गस्थानाम्यादेः परस्य स्खञ्जः सो द्वित्वेष्यट्यपि ष् स्यात् । परोक्षायां त्वादेरेख । अभिष्वजते । अभिषिष्वक्षते । प्रत्यष्वजत । परिषस्वजे ॥ ४५॥
परिनिवेः सेवः ।२।३।४६। पर्यायुपसर्गस्थान्नाम्यादेः परस्य सेवतेः सो द्वित्वेप्यदयपि ष् स्यात् परिषेवते । परिषिषवे । परिषिषेविषते । पर्यषेवत । निषेवते । विषिषेवे ॥ ४६॥