________________
स्वोपज्ञलघुवृत्तिः ।
सञ्जेर्वा । २ । ३|३८|
ण्यन्तस्य सञ्जर्नाम्यादेः परस्य सः षणि ब् वा स्यात् । सिषञ्जयिषति सिसञ्जयिषति ॥ ३८ ॥
उपसर्गात सुगसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे । २ । ३ । ३९।
द्वयुक्ताभावे सुनोत्यादेः स उपसर्गस्थान्नाम्यादेः परस्य ब् स्यात् अद्व्यवधानेपि । सुग् । अभिषुणोति । निःषुणोति । पर्यषुणोत् । सुव। अभिषुवति । पर्यषुवत् । सो। अभिष्यति । पर्यष्यत् । स्तु । अभिष्टौति । दुष्टवम् । पर्यष्टोत् । स्तुभ् । अभिष्टोभते । पर्यष्टोभत । अद्वित्वइति किम् । अभिसुसूषति ॥ ४९ ॥ स्थासेनिसिधसिचसञ्जांद्वित्वेपि | २|३|४०|
उपसर्गस्थान्नाम्यादेः परेषां स्थादीनां सः प् स्यात् द्वित्वेप्ययपि । अधिष्ठास्यति । अतिष्ठौ । अत्यष्ठात् । अभिषेणयति । अभिषिषेणयि - षति । अभ्यषेणयत् । प्रतिषेधति । प्रतिषिषेधिषति । प्रत्यषेधत् । अभिषिञ्चति । अभिषिषिक्षति | अभ्यषिञ्चत् । अभिषजति । अभिषषञ्ज । अभ्यषजत् ॥ ४० ॥
अङप्रतिस्तब्धनिस्तब्धे स्तम्भः | २|३|४१ |
८७
उपसर्गान्नाम्यादेः परस्य स्तम्भस्सो द्विवेष्टयपि पू स्यात् न चेत् स्तम्भिर्डेप्रतिस्तब्धनिस्तब्धयोश्च स्यात् । विष्टम्नाति । वितष्टम्भ | प्रत्यष्टम्नात् । ङादिवर्जनं किम् । व्यतस्तम्भत् । प्रतिस्तब्धः निस्तब्धः ॥
अवाच्चाश्रयोर्जाविदूरे । २ । ३ । ४२ ।
अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वे -