SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। आभ्यां परस्य स्थिरस्य सः समासे ष् स्यात् नाम्नि । गविष्ठिरः। युधिष्ठिरः ॥ २५॥ एत्यकः।२।३।२६। ___कवर्जान्नाम्यादेः परस्य स एति परे समासेष्स्यात् नाम्नि।हरिषेणः। श्रीषणः । अक इति किम् । विष्वक्सेनः ॥ २६ ॥ भादितो वा ।२।३।२७। नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे ष् वा स्यात् नाम्नि । रोहिणिषणः । रोहिणिसेनः। इतइति किम् । पुनर्वसुषेणः॥ विकुशमिपरेः स्थलस्य । २।३।२८। एभ्यः परस्य स्थलस्य सः समासे ष् स्यात् विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥२८॥ कपोत्रे । २।३।२९। कपः परस्य स्थलस्य सः समासे ष् स्यात् गोत्रे वाच्ये । कपिष्ठलः ऋषिः ॥२९॥ गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कक्वङ्गमञ्जिपुञ्जिबर्हिः परमेदिवेः स्थस्य।२।३।३०। एभ्यः परस्य स्थस्य सः समासेष् स्यात् । गोष्ठम् । अम्बष्ठः। आम्बष्ठः। सव्यष्ठः । अष्पठः । द्विष्ठः। त्रिष्ठः। भूमिष्ठः । अग्निष्ठः । शेकुष्ठः । शङ्कुष्ठः। कुष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । बर्हिष्ठः । परमेष्ठः । दिविष्ठः ॥ २९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy