SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ८४ हेमशब्दानुशासनस्य आभ्यां परस्य स्वसुः सस्य समासे ष् स्यात् । मातृष्वसा । पितृ ष्वसा ॥ १८ ॥ अलुपि वा । २ । ३ । १९ । मातृपितुः परस्य स्वसुः सस्यापि समासे वा प् स्यात् । मातुःवसा मातुःस्वसा । पितुः ष्वसा पितुः स्वसा ॥ १९ ॥ निनद्याः स्नातेः कौशले । २ । ३ । २० । आभ्यां परस्य स्नातेः सस्य समासे प् स्यात् कौशले गम्यमाने । निष्णो निष्णातो वा पाके । नदीष्णो नदीष्णातो वा प्रतरणे । कौशलइति किम् । निस्नातः । नदीस्नः । यः श्रोतसा हियते ॥ २० ॥ " प्रतेः स्नातस्य सूत्रे । २ । ३।२१। प्रतेः परस्य स्नातस्य सः समासे प् स्यात् सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् । प्रतिस्नातृ सूत्रम् ॥ २१ ॥ स्नानस्य नाम्नि | २।३।२२। प्रतेः परस्य स्नानस्य सः समासे प् स्यात् सूत्रविषये नाम्नि | प्रतिष्णानं सूत्रमित्यर्थः ॥ २२ ॥ त्रः । २ । ३ । २३ । वेः परस्य स्तृसस्य समासेप् स्यात् नाम्नि । विष्टरो वृक्षः । विष्टरं पीठम् || २३ || अभिनिःष्टानः । २ । ३ । २४ । अभिनिर्भ्यां स्तानः समासे कृतषत्वो निपात्यते नाम्नि | अभिनिःष्टानो वर्णः ॥ २४ ॥ गवियुधेः स्थिरस्य । २ । ३ । २५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy