SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। समासेऽसमस्तस्य।२।३।१३। पूर्वेणासमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि ष् स्थात् निमित्तानमित्तिनौ चेदेकत्र समासे स्तः।सर्पिष्कुम्भः। धनुष्फलम् । समास इति किम् । तिष्ठतु सप्पिः पिबत्वमुदकम् । असमस्तस्येतिकिम् । परम- . सर्पिः कुण्डम् ॥ १३ ॥ भ्रातुष्पुत्रकस्कादयः।२।३।१४। भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वाः साधवः स्युः। भ्रातृष्पुत्रः। परमयजुष्पात्रम्। कस्कः। कौतस्कृतः॥ नाम्यन्तस्थाकवगोत् पदान्तः कृतस्य सः शिइनान्तरेपि । २।३।१५। एभ्यः परस्य पदस्यान्तमध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात् शिटा नकारेण चान्तरेपि । आशिषा । नदीषु । वायुषु । वधूषु । पितृषु । एषा । गोषु । नौषु । सिषेच । गीर्षु । हल्षु।शक्ष्यति । क्रुङ्धु । शिइनान्तरेपि । सर्पिःषु । यजूषि । पदान्तरितिकिम् । दधिसेक्। कृतस्येतिकिम् । विसम् ॥ १५॥ समासेऽग्नेः स्तुतः।२।३।१६। अमेः परस्य स्तुतः सस्य समासे ष् स्यात् । अग्निष्टुत् ॥ १६ ॥ ज्योतिरायुा च स्तोमस्य ।२।३॥१७॥ आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे ष् स्यात्।ज्योतिष्टोमः। आयुष्टोमः।अग्निष्टोमः । समासइत्येव । ज्योतिः स्तोमं याति ॥१७॥ मातृपितुः स्वसुः । २।३।१८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy