________________
हैमशब्दानुशासनस्य
रोः काम्ये । २ । ३।७।
अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् । अहः काम्यति ॥ ७ ॥ नामिनस्तयोः षः । २।३।८।
तयोः प्रत्ययस्थे कखपर्फि रोरेव काम्ये नामिनः परस्य रस्य थ् स्यात् । सर्पिष्याशम् । धनुष्कल्पम् । धानुष्कः । सर्पिष्काम्यति । नामिनइति किम् । अयस्कल्पम् । रोःकाम्य इत्येव । गी ५ काम्यति ॥ ८ ॥
निर्दुर्बहिराविष्प्रादुश्चतुराम् । २ । ३ । ९ ।
निरादीनां रस्य कखपफ प् स्यात् । निष्कृतम् । दुष्कृतंम् । बहिपीतम् | आविष्कृतम् । प्रादुष्कृतम् । चतुष्पात्रम् ॥ ९॥
सुचो वा । २ । ३ । १० ।
सुजन्तस्थस्य रस्य कखपफि ब् वा स्यात् । द्विष्करोति द्वि करोति चतुष्फलति चतु फलति ॥ १० ॥
वेसुसोऽपेक्षायाम् । २ । ३।११।
इसुस्प्रत्ययान्तस्य रस्य कखपफ प् वा स्यात् । स्थानिनिमित्तयोरपेक्षा चेत् । सर्पिष्करोति । सर्पि करोति । धनुष्खादति । धनुखादति । अपेक्षायामिति किम् । परमसर्पि कुण्डम् ॥ ११ ॥ नैकार्थे ऽक्रिये । २ । ३ । १२ ।
न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे तुल्याधिकरणे पदे यत् कखपफं तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य न स्यात् । सपि कालकम् । यजु, फीतकम् । एकार्थ इति किम् । सर्पिकुम्भे । सर्पिकुम्भे । अक्रिय इति किम् । सप्पिष्क्रियते । सर्पि“क्रियते ॥ १२ ॥