________________
८०
हैमशब्दानुशासनस्य विप्रकृष्टेनेत्यादि । अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा । ग्रामस्य प्रामादा वसति । एवमभ्यासेनेत्यादि । असत्त्वइति किम् । दूरोऽन्तिको वा पन्थाः॥ १२० ॥ जात्याख्यायां नवैकोऽसंख्यो बहु
वत् ।२।२।१२१ । जातेराख्याभिधा तस्यामेकोऽर्थोऽसंख्यः संख्याविशेषणरहितो बहुवद्धा स्यात् । संपन्ना यवाः । संपन्नो यवः । जातीति किम् । चैत्रः । आख्यायामिति किम्। काश्यपप्रतिकृतिः काश्यपः। असंख्य इति किम् । एको व्रीहिः संपन्नः सुभिक्षं करोति ॥ १२१ ॥ अविशेषणे द्वौ चास्मदः । २।२।१२२ ।
अस्मदोदावेकश्वार्थो बहुवदा स्यात् अविशेषणे न चेत्तस्य विशेपणं स्यात् । आवां ब्रूवः। वयं ब्रूमः । अहं ब्रवीमि वयं ब्रूमः। अविशेषण इति किम् । आवां गाग्यौँ बेवः । अहं चैत्रो ब्रवीमि ॥ १२२ ॥
फल्गुनीप्रोष्ठपदस्यभे ।२।२।१२३।
फल्गुनीपोष्ठपदयोर्भेनक्षत्रे वर्तमानयो वर्थों बहुवदा स्याताम् । कदा पूर्वे फल्गुन्यौ । कदापूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे । कदा पूर्वाः प्रोष्ठपदाः । भइति किम् । फल्गुनीषु जाते फाल्गुन्यौ कन्ये ॥ १२३ ॥
गुरावकश्च ।२।२।१२४। गुरौ गौरवाहे वर्तमानस्य द्वावेकश्चाओं बहुवदा स्यात् । युवां गुरू । यूयं गुरवः । एष मे पिता । एते मे पितरः ॥ १२४ ॥ ____ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ. शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य द्वितीयपादः समाप्तः॥२॥