SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ऋते द्वितीया च । २ । २ । ११४। ऋते शब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्म्म धर्मात् कुतः सुखम् ॥ ११४ ॥ विना ते तृतीया च । २ । २ । ११५। विना शब्देन युक्तात्ते द्वितीयापञ्चम्यौ तृतीया च स्यात् । विना वातं वातात् वातेन वा ॥ ११५ ॥ तुल्यार्थैस्तृतीया षष्ठ्यौ । २ । २ । ११६ । तुल्यार्थैर्युक्ता तृतीया षष्ठ्यौ स्याताम् । मात्रा मातुर्वा तुल्यः समो वा ॥ द्वितीयाषष्ठ्यावेनेनानञ्चेः। २।२।११७| ७९ एनप्रत्ययान्तेन युक्ताद्वितीयाषष्ट्यौ स्याताम् । नचेत्सोञ्चैः परः स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनञ्चेरिति किम् । प्राग् ग्रामात् ॥११७॥ हेत्वर्थैस्तृतीयाद्याः । २।२। ११८ । हेतुर्निमित्तं तद्वाचिभिर्युक्तात् तृतीयाद्याः स्यः । धनेन हेतुना । धनाय हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥ ११८ ॥ सर्व्वादेः सर्व्वाः । २ । २ । ११९। हेत्वर्थैर्युक्तात् सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कहेतुम् । न हेतुना । कस्मै तवे । क्स्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ वा याति ॥ ११९ ॥ असत्त्वारादर्थाट्टाङसिङयम् । २।२।१२० । असत्त्ववाचिनोदूरार्थादन्तिकार्थाच्चटाङसिङयमः स्युः । गौणादिति निवृत्तं । दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति । एवं
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy