SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य षष्ठी वा ऽनादरे । २ । २ । १०८। यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य रुदति लोके वा प्रात्राजीत् ॥ १०८ ॥ सप्तमी चाविभागे निर्द्धारणे । २२२११०९ | ७८ जातिगुणक्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथकरणं निर्द्धारणम् । तस्मिन् गम्ये षष्ठीसप्तम्यौ स्याताम् । अविभागे निर्द्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्ददाम्यमाने । क्षत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा । धावन्तो यातां यात्सु वा शीघ्रतमाः। युधिष्ठिरः श्रेष्ठतमः कुरुणां कुरुषु वा । अविभाग इति किम् । मैत्रचैत्रात् पटुः ॥ १०९ ॥ क्रियामध्येध्वकाले पञ्चमी ||२११०। क्रिययोर्मध्ये यावध्वकालौ तद्वाचिभ्यां पञ्चमीसप्तम्यौ स्याताम् । इहस्थोयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति । अद्यभुक्त्वा मुनिर्द्वरहात् द्वयहे वा भोक्ता ॥ ११० ॥ अधिकेन भूयसस्ते । २ । २ । १११। अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते सप्तमीपञ्चम्यौ स्याताम् । अधिको द्रोणः खार्या खार्या वा ॥ १११ ॥ तृतीयाल्पीयसः । २ । २ । ११२ । अधिकेन भूयोवाचिना योगे ऽल्पीयोवाचिनस्तृतीयास्यात् । अधिका खारी द्रोणेन ॥ ११२ ॥ - पृथग नाना पञ्चमी च । २।२।१९३। आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् । पृथग् मैत्रात् मैत्रेण वा । नाना चैत्राचैत्रेण वा ॥ ११३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy