________________
हैमशब्दानुशासनस्व अधण्तस्वाद्या शसः।१।१।३२। धण्वर्जास्तस्वादयः शस्पर्यन्ताये प्रत्ययास्तदन्तं नामाव्ययं स्यात् । देवा अर्जुनतोऽभवन् । ततः। तत्र । बहुशः । अधणितिकिम् । पथिबैधानि ॥ ३२॥ विभक्तिथमन्ततसाद्याभाः।१।१।३३।
विभक्त्यन्तामा स्थमवसानतसादिप्रत्ययान्तामाश्चाऽव्ययानि स्युः। अहंयुः । अस्तिक्षीरा गौः। कथम् । कुतः ॥ ३३ ॥
वत्तस्याम् ।१।१।३४॥ वत्तस्याम्प्रत्ययान्तमव्ययं स्यात् । मुनिववृत्तम् । उरस्तः। उच्चैस्तराम्।।३४॥
क्त्वातुमम् ।१।१।३५। क्वातुमम्प्रत्ययान्तमव्ययं स्यात्। कृत्वा । कर्तुं । यावजीवमदात्।।३५॥
गतिः ।१।१।३६। गतिसंज्ञमव्ययं स्यात् । अदः कृत्य। अतः कृकमीत्यादिना र सो न स्यात् ॥ ३६ ॥
अप्रयोगीत् ।१।१।३७। इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते । यजते । चित्रीयते ॥ ३७ ॥
अनन्तः पञ्चम्याःप्रत्ययः।१।१।३८।
पञ्चम्यर्थाद्विहितान्तशब्दानिर्दिष्टः प्रत्ययः स्यात् । नाम्नः प्रथमैकदिवहौ । वृक्षः। अनन्तइति किम् । आगमः प्रत्ययो मा भूत् ॥ ३८ ॥
डत्यतु संख्यावत् ।१।१।३९। डत्यन्तमत्वन्तं च संख्याकार्यमा स्यात् । कतिकः। यावत्कः ॥३९ ।।