SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । बहुगणं भेदे । १ । १ । ४० । बहुगणशब्द भेदवृत्ती संख्यावत्स्याताम् । बहुकः । गणकः। भेदइति किम् । वैपुल्ये सङ्के च माभूत् ॥ ४० ॥ कसमासेऽध्यर्द्धः । १ । १ । ४१ । अध्यर्द्धशब्दः केप्रत्यये समासे च विधेये संख्यावत् स्यात् । अध्य र्द्धकम् । अध्यर्द्धम् ॥ ४१ ॥ अर्द्धपूर्वपदः पूरणः । १ । १ । ४२ । अर्द्धपूर्वपदः पूरणप्रत्ययान्तः कप्रत्यये समासे च कार्ये संख्यावत् स्यात् अर्द्धपञ्चमकम् । अर्द्धपञ्चमसूर्पम् ॥ ४२ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ १ ॥ समानानां तेन दीर्घः । १ । २ । १ । समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डायम् । दधीदम् । नदीन्द्रः ॥ १ ॥ ऋलृति ह्रस्वो वा । १।२।२। ऋति ऌति च परे समानानां ह्रस्वो वा स्यात् । बाल ऋश्यः । ऌ ऋषभः । होतृ लकारः । पक्षे बालः ॥ २ ॥ लृत लृ ऋभ्यां वा । १ । २ । ३ । ऌत ऋता ऌता च सह यथा संख्यं लृ इत्येतौ वा स्याताम् । ऋता दृकारः । पक्षे ऌ ऋकारः । ऋकारः । लता लृकारः । पक्षे ऌ ॡकार लृकारः ॥३॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy