SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । एतानि वति परे पदं न स्युः । मनुष्वत्। नभस्वत् । अङ्गिरस्वत् ||२४|| वृत्त्यन्तोऽसषे । १ । १ । २५ । परार्थाभिधायीसमासादिर्वृत्तिस्तस्या अन्तोऽवसानं पदं न स्यात् । असषे सस्य तु षत्वे पदमेव । परमदिवौ । वहुदण्डिनौ । असष इति किम् । दधिसे ।। २५ ।। सविशेषणमाख्यातं वाक्यम् । १ । १ । २६ । प्रयुज्यमानैरप्रयुज्यमानै र्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । धर्म्मो वो रक्षतु । लुनीहि३ । पृथुकाँश्चखाद | शीलं ते स्वम् || २६ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम । १।१।२७| धातुविभक्त्यन्तवाक्यवज्र्ज मर्थवच्छब्दरूपं नाम स्यात् । वृक्षः । स्वः । धवश्च । अधातुविभक्तिवाक्यमिति किम् । अहन् । वृक्षान् । साधुर्धर्मंब्रूते ॥ २९ ॥ शिर्घुट । १ । १ । २८ । जस्सादेशः शिर्षुट् स्यात् । पद्मानि तिष्ठन्तिपश्य वा ॥ २८ ॥ पुंस्त्रियोः स्यमौजस् । १ । १ । २९ । स्यादयः पुंस्त्रीलिङ्गयोर्घुटः स्युः । राजा । राजानौ । राजानः । राजानम्र राजानौ । सीमा । सीमानौ । सीमानः । सीमानम् ॥ २९ ॥ स्वरादयोऽव्ययम् । १ । १ । ३० । स्वरादयोऽव्ययानि स्युः । स्वर् । अन्तर् । प्रातर् । इत्यादि ॥ ३० ॥ 1 1 चादयोऽसत्वे । १ । १ । ३१ । अद्रव्ये वर्त्तमानाश्चादयो ययानि स्युः । वृक्षश्चेत्यादि ॥ ३१ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy