SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य कुशलायुक्तेनासेवायाम्।२।२।९७। आभ्यां युक्तादाधारवाचिनः सप्तमी वा स्यात् आसेवायां तात्पर्ये । कुशलो विद्यायां विद्याया वा.। आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् । कुशलश्चित्रे नतु करोति । आयुक्तो गौः शकटे आकृष्ययुक्त इत्यर्थः ॥ ९७ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभू प्रसतैः ।२।२।९८ । एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी । ईश्वरः । अधिपतिः । दायादः।साक्षी । प्रतिभूः । प्रसूतो वा ॥९८॥ व्याप्ये ते नः।२।२।९९ । क्ताद्यइन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् । अधीतमनेन अधीती व्याकरणे । इष्टी यज्ञे । क्तेनेति किम् । कृतपूर्वी कटम् ॥ ९९॥ तद्युक्ते हेतौ ।।२।१०। तेन व्याप्येन युक्ते हेतौ वर्तमानात् सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः १ तद्युक्त इति किम् । वेतनेन धान्यं लुनाति॥१०॥ अप्रत्यादावसाधुना ।२।२।१०१। प्रत्यादरप्रयोगे असाधुशब्देन युक्तात् सप्तमी स्यात् । असाधुमैत्रो मातरि। अप्रत्यादाविति किम् । असाधुमत्रो मातरं प्रति परिअनुअभि वा ॥ १०१॥ साधुना ।।२।१०२।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy