________________
स्वोपसमवृत्तिः मलयं पवमानःओदनं पचमानः चैत्रेण पच्यमानः । अतृश् । अधीयंस्तत्त्वार्थम् । शतृ । कटं कुर्वन् । ङि । परिषहान सासहिः। णकच् । कटं कारको व्रजति । खलर्थः । ईषत्करः कटो भवता । सुज्ञानं तत्त्वं त्वया ।।
क्तयोरसदाधारे। २।२। ९१ ।
सतो वर्तमानादाधाराचान्यत्रार्थे यौ तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । कटः कृतो मैत्रेण । प्रामं गतवान् । असदाधार इति किम् । राज्ञां पूजितः । इदं सक्तूनां पीतम् ॥९१॥ __ वा क्लीबे । २।२। ९२।
क्लीबे विहितस्य तस्य कर्तरि षष्ठी वा स्यात् । मयूरस्य मयूरेण वा नृत्तम् ॥ ९२॥
अकमेरुकस्य ।२।२।९३। कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । भोगानभिलाषुकः । अकमेरितिकिम् । दास्याः कामुकः॥ ९३॥ .. एष्यदणेनः।२।२।९४।
एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् । प्राम गमी आगामी वा। शतंदायी। एष्यदृणेति किम्। साधु दायी वित्तस्य॥
सप्तम्यधिकरणे । २।२।९५।
अधिकरणे एकदिबही यथासंख्यं ड्योस्सुप्पा सप्तमी स्यात् । कटे आस्ते । दिवि देवाः । तिलेषु तैलम् ॥ ९५॥
नवासुजथैः काले। २।२।९६ ।
सुचोऽर्थों वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्त. मानात् सप्तमी वा स्यात् । द्विरह्नि अह्नो वा मुङ्क्ते । पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् । द्विः कांस्यपात्र्यां भुङ्क्ते॥१६॥