SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य द्विकर्मकेषु धातुषु कृत्प्रत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन् षष्ठी वा स्यात् । अजाया नेता स्रुघ्नं खुन्नस्य वा । अथवा अजां अजाया वा नेता नस्य ॥ ८५ ॥ कर्त्तरि । २ । २ । ८६ । ७४ कृदन्तस्य कर्त्तरि षष्ठी स्यात् । भवत आसिका । कर्त्तरीति किम् । गृहे शायिका ॥ ८६ ॥ द्विहेतोरस्त्र्यणकस्य वा । २।२।८७। स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोतोः कृतः कर्त्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्य आचार्येण वा । द्विहेतोरित्येकवचनं किम् । आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् । चिकीर्षा मैत्रस्य काव्यानाम । भेदिका चैत्रस्य काष्ठानाम् ॥ ८७ ॥ कृत्यस्य वा । २ । २ । ८८ । कृत्यस्य कर्त्तरि षष्ठी वा स्यात् । त्वया तव वा कृत्यः कटः ॥ ८८ ॥ नोभयोर्हेतोः । २ । २।८९। उभयोः कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण ॥ ८९ ॥ तृन्नुदन्ताव्ययक्वसानातृश्शतृङिणकचखलर्थस्य । २ । २ । ९० । तृनादीनां कृतां कर्मकर्त्रीः षष्ठी न स्यात् । तृन् । वदिता जनापवादान् । उदन्तः। कन्यामलङ्करिष्णुः। श्रद्धालुस्तत्त्वम् । अव्ययम् । कडं कृत्वा । ओदनं भोक्तुं व्रजति । कसुः । ओदनं पेचिवान् । आनः कटं चक्राणः
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy