SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ७३ यतो द्रव्ये शब्दप्रवृत्तिः सगुणोऽसत्त्वं तेनैव वा रूपेणाभिधीयमानं द्रव्यादि तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा । अल्पादल्पेन वा । कृच्छात् कृच्छ्रेण वा। कतिपयात्कतिपयेन वा मुक्तः। असत्वइति किम् । स्तोकेन विषेण हतः॥ अज्ञाने ज्ञः षष्ठी । २।२।८०। अज्ञानार्थस्य ज्ञो यत्करणं तद्वाचिन एकद्विवहौ यथासंख्यं ङसोसांलक्षणा षष्ठी नित्यं स्यात् । सप्पिषः सप्पिषोः सप्पिषां वा जानीते । अज्ञान इति किम् । वरेण पुत्रं जानाति । करण इत्येव । तैलं सप्पिषो जानाति ॥ ८॥ शेषे । २।२।८१। कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धः विशेषः शेषस्तत्र षष्ठी स्यात्। राज्ञः पुरुषः । उपगोरपत्यम् । माषाणामश्नीयात् ॥ रिरिष्टात्स्तादस्तादसतसाता।२।२।८२। एतत्प्रत्ययान्तैर्युक्तात् षष्ठी. स्यात् । उपरि ग्रामस्य । उपरिष्टात् । परस्तात् । पुरस्तात् । पुरः । दक्षिणतः । उत्तरादा ग्रामस्य ॥ ८२॥ कमणि कृतः । २।२।८३। कृदतन्स्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा । गवां दोहः । कर्मणीति किम् ।शस्त्रेण भेत्ता। स्तोकं पक्ता। कृत इति किम् । भुक्तपूर्वी ओदनम् ॥ ८३॥ द्विषो वाऽतृशः।२।२।८४ । अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं वा द्विषन् ॥ ८४ ॥ वैकत्रद्वयोः २।२।८५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy