SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७२ हैमशब्दानुशासनस्य गम्ययपः कर्माधारे । २।२।७४ । गम्यस्याप्रयुज्यमानस्य यबन्तस्य कर्माधारवाचिनः पञ्चमी स्यात् । प्रासादादासनादा प्रेक्षते । गम्यग्रहणं किम् । प्रासादमारुह्य शेते । आसने उपविश्य भुङ्क्ते ॥ ७४ ॥ प्रभत्यन्यार्थदिकशब्दबहिरारादि तरैः।२।२।७५। प्रभृत्यर्थैरन्याथैदिक्शब्दैबहिरादिभिश्च युक्तात् पञ्चमी स्यात् । ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो भिन्नोवा मैत्रात् । ग्रामात् पूर्वस्या दिशि वसति । उत्तरो विन्ध्यात् पारियात्रः । पश्चिमो रामाद् युधिष्ठिरः। बहिरारादितरो वा प्रामात् ॥ ७५ ॥ ऋणाद्धेतोः।२।२।७६। हेतुभूतऋणगचिनः पञ्चमी स्यात्। शताद् बद्धः।हेतोरिति किम् । शतेन बद्धः ७६ ॥ गुणादस्त्रियां नवा ।२।२।७७। अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाडयाज्जाडयेन वा बद्धः । ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् । बुद्ध्या मुक्तः ॥ ७७ ॥ आरादथैः । २।२। ७८ । आराद्रमन्तिकं च तदथैर्युक्तात् पञ्चमी वा स्यात् । दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा। अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ।।७८॥ स्तोकाल्पकृच्छ्रकतिपयादसत्वे करणे ।२।२। ७९।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy