________________
स्वोपज्ञलघुवृत्तिः। शक्तार्थवषड्नमः स्वस्तिखाहास्व
धाभिः । २।२।६८॥ - शक्ताथैर्वषडादिभिश्वयुक्ताचतुर्थी नित्यं स्यात् । शक्तः प्रभु मल्लो मल्लाय । वषडग्नये । नमोर्हयः । स्वस्ति प्रजाभ्यः । वाहेन्द्राय । स्वधापितृभ्यः ॥ ६॥
पञ्चम्यपादाने । २।२।६९। अपादाने एकद्विबहौ यथासंख्यं इसिभ्यांभ्यस्लक्षणा पञ्चमी स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति ॥ ६९ ॥ . आङावधौ।२।२। ७० ।
अवधिमर्यादा अभिविधिश्च तद्वृत्तेराडा युक्तात् पञ्चमी स्यात् । आपाटलिपुत्राद् वृष्टो मेघः ॥ ७०॥
पर्यपाभ्यां वयें । २।२।७१ । ___ वज्र्ये वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् । परि अप वा पाटलिपुत्राद् वृष्टो मेघः । वयं इति किम् । अपशब्दो मैत्रस्य ॥ ७१॥ यतः प्रतिनिधिप्रतिदाने प्रतिना।२।७२। . प्रतिनिधिमुख्यसदृशोर्थः प्रतिदानं गृहीतस्य विशोधनं ते यतः स्यातां तद्वाचिनः प्रतिना योगे पञ्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रतिमाषानस्मै प्रयच्छति ॥ ७२ ॥
आख्यातयुपयोगे । २।२।७३।
आख्याता प्रतिपादयिता तद्वाचिनः पञ्चमी स्यात् उपयोगे नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् । नटस्य शृणोति । ७३ ॥