________________
हैमशब्दानुशासनस्य गतिः पादविहरणं तस्या आप्येऽनाप्ते वर्तमानाचतुर्थी वा स्यात् । ग्रामं प्रामाय वा याति । विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् । स्त्रियं गच्छति । मनसा मेरुं गच्छति । अनाप्त इति किम् । संप्राप्ते माभूत् । पन्थानं याति ॥ ६३ ॥ मन्यस्यानावादिभ्योऽतिकुत्सने।।२।६४।
अतीव कुत्स्यते येन तदतिकुत्सनं तस्मिन् मन्यताप्ये वर्तमानान्नावादिवर्जाच्चतुर्थी वा स्यात् । न वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् । न त्वा तृणं मन्वे । अनावादिभ्य इति किम् । न त्वा नावं अन्नं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् । न त्वारत्नं मन्ये । करणाश्रयणं किम् । न वा तृणाय मन्ये । युष्मदोमाभूत् । अतीति किम् । त्वां तृणं मन्ये ॥६४ ॥
हितसुखाभ्याम् ।२।२।६५। आभ्यां युक्ताचतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् ॥६५॥ । तद्भद्रायुष्यक्षेमार्थार्थनाशिषि ।२।२।६६।
तदिति हितमुखयोः परामर्शः । हिताद्यर्थैर्युक्तादाशिषि गण्यायां चतुर्थी वा स्यात् । हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु श्रीजिनशासनाय
श्रीजिनशासनस्य वा । आयुष्यमऽस्तु चैत्राय चैत्रस्य वा। क्षेमं भूयात् कुशलं निरामयं वा श्रीसङ्घाय श्रीसङ्घस्य वा । अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा ॥ ६६ ॥
. परिक्रयणे। २।२।६७। परिक्रीयते नियतकालं स्वीक्रियते यन तस्मिन् वर्तमानाच्चतुर्थी वा स्यात् । शताय शतन वा परिकीतः ॥ ६७ ॥