________________
स्वोपज्ञलघुत्तिः वीक्ष्यं विमतिपूर्वकं निरूप्यं तद्विषया क्रियापि यस्य वीक्ष्ये राधीक्षी वर्त्तते तद्वृतेश्चतुर्थी स्यात् । मैत्राय राध्यति ईक्षते वा । ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् । मैत्रमीक्षते ॥ ५८॥
उत्पातेन ज्ञाप्ये ।२।२।५९। उत्पात आकस्मिकं निमित्तम् । तेन ज्ञाप्ये वर्तमानाचतुर्थी स्यात् । वाताय कपिला विद्युत् आतपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्मिक्षाय सिता भवेत् ॥१॥ उपत्पातेनेति किम् । राज्ञ इदं छत्रमायान्तं विद्धि राजानम् ॥ ५९॥ श्लाघहस्थाशपा प्रयोज्ये ।२।२।६०।
श्लाघादिभि तुभिर्युक्तात् ज्ञाप्ये प्रयोज्ये वर्तमानाच्चतुर्थी स्यात् । मैत्राय श्लाघते । हृते । तिष्ठते । शपते । प्रयोज्य इति किम्। मैत्रायात्मानं श्लाघते । आत्मनो मा भूत् ॥ ६०॥ तुमोर्थे भाववचनात् । २।२।६१ ।
क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते तस्यार्थे ये भाववाचिनो घवादपस्तदन्तात् स्वार्थ चतुर्थी स्यात् । पाकाय इज्यायै वा ब्रजति । तुमोर्थ इति किम् । पाकस्य । भाववचनादिति किम् । पक्ष्यतीति पाचकस्य व्रज्या ॥६१॥
गम्यस्याप्ये ।२।२।६२। यस्थार्थो गम्यते नचासौ प्रयुज्यते सगम्यः । गम्यस्य तुमोव्याप्ये वर्तमानाच्चतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा अजति । गम्यस्येति किम् । एधानाहर्तुं याति ॥ ६२ ॥
गतेनवानाप्ते ।२।२।६३।
३