SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्प सम्पूर्वस्य दामः सम्प्रदानेऽधर्ये वर्त्तमानात्तृतीया स्यात् । तत्सनियोगे च दाम आत्मनेपदम् । दास्या संप्रयच्छते कामुकः । अधर्म्य इति किम् । पत्यै संप्रयच्छति ॥ ५२ ॥ चतुर्थी । २ । २ । ५३ । संप्रदाने वर्त्तमानादेकद्विबहौ यथासंख्यं ङेभ्यांभ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते । पत्ये शेते ॥ ५३ ॥ तादर्थ्ये । २ । २।५४। तस्मा इदं तदर्थम् । तद्भावे सम्बन्धविशेषे द्योत्ये च चतुर्थी स्यात् । यूपाय दारु । रन्धनाय स्थाली ॥ ५४ ॥ रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमर्णेषु । २ । २ । ५५ । रुच्यर्थैः कृप्यथैर्धारिणा च योगे यथासंख्यं प्रेयविकारोत्तमर्णवृतेश्चतुर्थी स्यात् । मैत्राय रोचते धर्म्मः । मूत्राय कल्पते यवागूः । चैत्राय शर्त धारयति ॥ ५५ ॥ प्रत्याङः श्रुवार्थिनि । २ । २५६ । प्रत्याभ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्त्तमानाच्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति आशृणांति वा ॥ ५६ ॥ प्रत्यनोर्गुणा ख्यातरि । २।२।५७ । प्रत्यनुभ्यां परेण गृणायोगे आख्यातृवृत्तेश्वतुर्थी स्यात् । गुखे प्रति गृणाति । अनुगृणाति ॥ ५७ ॥ यद्वीक्ष्ये राधीक्षी | २।२।५८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy