________________
स्वोपज्ञलघुवृत्तिः। यस्य भेदिनो भेदैः प्रकारैस्तद्वतीर्थस्याख्यानिर्देशः स्यात्। तदाचिनस्तृतीया स्यात् । अक्ष्णा काणः। पादेन खञ्जः। प्रकृत्या दर्शनीयः । तद्वद् ग्रहणं किम् । अक्षिकाणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम् । तेनाक्ष्णा दीर्घ इति न स्यात् ॥ ४६॥
कृताद्यैः । २।२।४७। कृतायैनिषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन । किं गतेन ॥४७॥ काले भान्नवाधारे । २।२।४८।
कालवृत्त क्षत्रार्थीदाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काल इति किम् । पुष्यः । भादिति किम् । तिलपुष्येषु.यक्षीरम् । आधार इति किम् । अद्य पुष्यं विद्धि ॥ ४८॥
प्रसितोत्सुकाऽवबद्धैः ।२।२।४९।
एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् । केशैः केशेषु वा प्रसितः। गृहेण गृहे वा उत्सुकः । केशैः केशेषु वाग्वबद्धः॥ ४९ ॥ व्याप्ये द्विद्रोणादिभ्योवीप्सायाम्।।२।५०।
व्याष्यवृत्तिभ्यो दिद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । विद्रोणेन विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं पञ्चकं
तृतीया वा
वा पशून क्रीणातिमाण वा धान्यं की
समोज्ञोऽस्मृतौ वा । २।२।५१ ।
अस्मृत्यर्थस्य सानार्यव्याप्यं तवृत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा सञ्जानीते । अस्मृताविति किम् । मातरं सञ्जानाति॥ दामः संप्रदानेऽधर्म्य आत्मने च ॥२॥५२