SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । सर्वादिभिस्तसन्तैर्युक्तान्नाम्ना द्वितीया स्यात् । सर्वतः । उभयतः।अभितः परितो वा ग्रामं वनानि ॥ ३५ ॥ लक्षणवीपस्येत्थम्भूतेष्वभिना | २ | २|३६| ६५ लक्षणं चिह्नम् । वीप्साकर्म्म वीप्स्यम् । इत्थम्भूतः किञ्चित्मकारमापन्नः । एषुवर्त्तमानादभिनायुक्ताद्वितीया स्यात् । वृक्षमभिविद्युत् । वृक्षं वृक्षमभिसेकः। साधुमैत्रो मातरमभि । लक्षणादिष्विति किम् । यदत्र ममाभि स्यातद्दीयताम् ॥ ३६ ॥ भागिनि च प्रतिपर्यनुभिः । २।२|३७| स्वीकार्योऽशो भागस्तत्स्वामी भागी तत्र लक्षणादिषु च वर्त्तमानात् प्रत्यादिभिर्युक्ताद्वितीया स्यात् । यदत्र मां प्रति मां परि मामनु स्यात्तद्दीयताम् । वृक्षं प्रति परि अनु वा विद्युत् । वृक्षंवृक्षं प्रति परि अनु वा सेकः । साधुमैत्रो मातरं प्रति परि अनु वा ॥ एतेष्विति किम् । अनु वनस्याऽशनिर्गता ॥ ३७ ॥ हेतुसहार्थेऽनुना । २ । २ । ३८। हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च । तद्विषयोप्युपचारात् । तयोर्वर्त्तमानादनुना युक्ताद्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः । गिरिमन्वासिता सेना ॥ ३८ ॥ उत्कृष्टेऽनूपेन । २ । २३९। उत्कृष्टार्थादनूपाभ्यां युक्ताद्वितीया स्यात् । अनुसिद्धसेनं कवयः । उपमास्वातिं संगृहीतारः ॥ ३९ ॥ कर्म्मणि । २ । २ । ४० । नाम्नः कर्मणि द्वितीया स्यात् । कटं करोति । तण्डुलान् पचति । रविं पश्यति । अजां नयति ग्रामम् । गां दोग्धि पयः ॥ ४० ॥ ९
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy