SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ हैमशम्दानुशासनस्य क्रियाश्रयस्याधारोधिकरणम् ।२।२।३०। क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणं स्यात् । कटे आस्ते । स्थाल्यां तण्डुलान् पचति ॥ ३०॥ नाम्नः प्रथमैकद्विबहौ।२।२।३१। एकदिबहावर्थमात्रे वर्तमानान्नाम्नः परा यथासंख्यं सि औ जस्लक्षणा प्रथमा स्यात् । डित्थः । गौः। शुक्लः। कारकः। दण्डी ॥ ३१ ॥ आमन्त्र्ये। २।२।३२। आमन्त्र्यार्थवृनेर्नाम्नःप्रथमा स्यात् । हे देव। आमन्त्र्य इति किम् । राजा भव ॥ ३२॥ गौणात्समयानिकषाहाधिगन्तरान्तरे णातियेनतेनैर्द्वितीया ।।२।३३। - समयादिभिर्युक्ताद् गौणान्नाम्न एकद्धिबहौ यथासंख्यममाश• सिति द्वितीया स्यात् । समयाग्रामम् । निकषा गिरि नदी । हा मैत्रं व्याधिः। धिग्जाल्मम् । अन्तराऽन्तरेण च निषधं निलं च विदेहाः।अन्तरेण धर्म सुखं न स्यात् । अतिवृद्धं कुरुन् महदलम्।येनपश्चिमां गतः। तेन पश्चिमां नीतः ॥ ३३॥ द्वित्वेधोध्युपरिभिः ।।२।३४। द्विरुक्तैरेभिर्युक्तान्नाम्नोद्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यऽधिग्रामम् । उपर्युपरिणामं ग्रामाः । द्वित्व इति किम् । अधो गृहस्य ॥३४॥ सर्वोभयाभिपरिणा तसा ।२।२।३५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy