________________
१२ .
हैमशब्दानुशासनस्य अनुपसर्गस्य दिवो व्याप्यो विनमेयद्यूतपणो कर्म न स्याताम् । शतस्य दीव्यति ॥ १८
करणं च । २।२।१९। दिवः करणं कर्म करणं च युगपत् स्यात् । अक्षान् दीव्यति । अक्षेर्दीव्यति । अक्षैर्देवयते मैत्रश्चैत्रेण ॥ १९ ॥ अधेः शीस्थास आधारः।२।२।२०।
अधेः संबद्धानां शास्थासामाधारः कर्म स्यात् । ग्राममधिशेते । अधितिष्ठति अध्यास्ते वा॥ २०॥
उपान्वध्याङ्वसः। २।२।२१।
उपादिविशिष्टस्य वसतेराधारः कर्म स्यात् । ग्राममुपवसति । अनुवसति । अधिवसति । आवसति ॥ २१॥
वाऽभिनिविशः । २।२।२२।
अभिनिभ्यामुपसृष्टस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिविशते । कल्याणे अभिनिविशते ।। २२ ॥ कालाध्वभावदेशं वा कर्म चाकर्म
णाम् । २।२।२३। कालादिराधारोऽकर्मणां धातूनां योगे कर्माकर्म च युगपद्धा स्यात् । मासमास्ते । क्रोशं शेते । गोदोहमास्ते । कुरूनास्ते । पक्षे । मासे आस्ते इत्यादि । अकर्मचेति किम् । मासमास्यते। अकर्मणा मिति किम् । रात्राबुद्देशोऽधीतः ॥ २३ ॥
साधकतमं करणम् ।२।२।२४।