SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ६१ रुजा पीडा तदर्थस्य ज्वरिसन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात् । भावश्चेदुजायाः कर्ता । चौरस्य चौरं वा रुजति रोगः । अज्वरिसन्तापेरिति किम् । आयुनं ज्वरयति सन्तापयति वा । भाव इति किम् । मैत्रं रुजति श्लेष्मा ॥१३॥ जासनाटकाथपिषोहिंसायाम्। २।२।१४। __ हिंसार्थानामेषां व्याप्यं कर्म वा स्यात् । चौरस्य चौरं वोजासयति। चौरस्य चौरं वोम्नाटयति । चौरस्य चौरं वोक्राथयति । चौरस्य चौरं वा पिनष्टि । हिंसायामिति किम् । चौरं बन्धनाजासयति ॥ १४ ॥ निप्रेभ्यो नः । २।२।१५। समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हिंसार्थस्य हन्तेप्प्यं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहन्ति । हिंसायामित्येव । रागादीन्निहन्ति ॥ १५॥ विनिमेयद्यूतपणं पणिव्यवहोः।२।२।१६। विनिमेयः क्रयविक्रयोऽर्थः द्यतपणो द्यूतजयंती पणिव्यवहोर्व्याप्यो वा कर्म स्याताम् । शतस्य शतं वा पणायति । दशानां दश वा व्यवहरति । विनिमेयातपणमिति किम् । साधून पणायति ॥ १६ ॥ उपसर्गादिवः ।२।२।१७। उपसर्गात् परस्य दिवो व्याप्यो विनिमेयरातपणौ वा कर्म स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गादिति किम् । शतस्यदीव्यति ॥१७॥ न। २।२।१८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy