SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य ___ वहेराणिकर्ता प्रवेयो णौ कर्म स्यात् । वाहयति भारं बलीवहन मैत्रः। प्रवेय इति किम् । वायति भारं मैत्रेण ।। ७॥ हक्रोर्नवा । २।२।८। हक्रोरणिकर्ता णौ कर्म वा स्यात् । विहारयति देशं गुरुं गुरुणा वा । आहारयत्यांदनं बालं बालेन वा । कारयति कटं चैत्रं चैत्रेण वा ॥८॥ दृश्यभिवदोरात्मने । २।२।९। दृश्याभिवदोरात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् । दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवादयत गुरुः शिष्यं शिष्येण वा । आत्मन इति किम् । दर्शयति रूपतर्क रूपम् ॥ ९॥ नाथः। २।२।१०। आत्मनेपदविषयस्य नाथा व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते । सपि थते । आत्मन इत्येव । पुत्रमुपनाथति पाठाय ॥१०॥ स्मत्यर्थदयशः।२।२।११। स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति । मातरं स्मरति । मातुः स्मयते। माता स्मयते । सर्पिषो सपिर्वा दयते। लोकानामीष्टे । लोकानीटे ॥ ११ ॥ कृगः प्रतियत्ने । २।२।१२। पुनर्यनः प्रतियत्नस्तदृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं वोपस्कुरुते ॥ १२॥ रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्तरि । २।२।१३।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy