SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः - कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं व्याप्यं कर्म च स्यात् । तत्रेधा । निवर्त्य विकार्य प्राप्यं च । कटं करोति । काष्ठं दहति । ग्रामं याति ॥३॥ वा कर्मणामणिक्काणौ।२।२।४। __अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्ता स णिगि सति कर्म वा स्यात् । पचति चैत्रः। पाचयति चैत्रं चैत्रेण वा ॥ ४ ॥ गतिबोधाहारार्थशब्दकर्मनित्याऽकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम्।।२।५। गतिर्देशान्तरप्राप्तिः । शब्दः कमक्रिया व्याप्यञ्च येषां ते शब्दकर्माणः । नित्यं न विद्यत कर्म येषां ते नित्याकाणः। गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणाञ्च नीखाद्यदिहाशब्दायक्रन्दिवर्जानां धातूनामणिकर्ता स णौ सति कर्म स्यात् । गमयति चैत्र ग्रामम् । बोधयति शिष्यं धर्मम् । भोजयति बटुमोदनम् । जल्पयति मैत्रं द्रव्यम् । अध्यापयति बटुं वेदम् । शाययति मैत्रं चैत्रः । गत्यर्था- . दीनामिति किम् । पाचयत्योदनं चैत्रेण मैत्रः। न्यादिवर्जनं किम् । नाययति भारं चैत्रेण । खादयत्यपूपं मैत्रेण । आदयत्योदनं सुतेन । ह्वाययति चैत्रं मैत्रेण । शब्दाययति बटुं मैत्रेण । कन्दयति मैत्रं चैत्रेण ॥५॥ भर्हिसायाम् । २।२।६। भक्षेहिसार्थस्यैवाणिकर्ताणौ कर्म स्यात् । भक्षयति सस्यं बलीवान मैत्रः। हिंसायामिति किम् । भक्षयति पिण्डी शिशुना ॥६॥ वहेः प्रवेयः ।२।२।७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy