SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ हैमशन्दानुशासनस्य नावजदवर्णात् परस्यातुः स्थानेऽन्तो वा स्यात् । ईङयोः । तुदन्ती तुदती कुले स्त्री वा । एवम् । भान्ती भाती । अवर्णादिति किम् । अदती | अश्न इति किम् । लुनती ॥ ११५ ॥ १ । ११६ । श्यशवः । २ । श्याच्छवश्च परस्यातुरीड्योः परयोरन्त इत्यादेशः स्यात् । दीव्यन्ती । पचन्ती ॥ ११६ ॥ दिव औः सौ । २ । १ । ११७। दिवः सौ परे औः स्यात् । द्यौः ॥ ११७ ॥ उः पदान्तेऽनूत्। २।१।११८ । ५८ पदान्तस्थस्य दिव उः स्यात् अनूत् । सतुदीर्घो न स्यात् । द्युभ्यांम् । षु । पदान्त इति किम् । दिवि । अनूदिति किम् । द्युभवति ॥ ११९ ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखापज्ञ शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः ॥ २ ॥ १ ॥ क्रियाहेतुः कारकम् । २ । २।१। क्रियाया निमित्तं कर्त्रादि कारकं स्यात् । अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न स्यात् ॥ १ ॥ स्वतन्त्रः कर्त्ता । २।२।२। क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्त्ता स्यात् । मैत्रेण 1 नः॥२॥ अन कर्त्तर्व्याप्यं कर्म । २ । २।३।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy